पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने हरियिाः वैखानसा इति पूर्वमेव निरूपितम् । अर्धरात्रात्परं यत्र दशमी विद्यते कला । वैखानसविदो विप्रा मद्भक्तास्तमुपोषणम् । न कुर्युरिति अरुणोदयवेधस्य च मेदाभावात् । सम्बन्धः । कपालवधस्य नारदः – 'अर्धरात्रात्परे विद्धा विद्धा वाप्यरुणोदये । अपि षड्घटिभिर्युक्ता सदा तां परिवर्जयेत् ।। सुराबिन्दुसमायुक्तं गङ्गातोयं यथा तथा । सुरा वै गन्धमात्रेण दूरतः परिवर्जिता । तथैव दशमीविद्धाप्यर्धरात्रेऽरुणोदये । यद्वाऽरुणोदये न स्याद्दशमी तु कलपरा । सा शुद्वैकादशी प्रोक्ता यदि न स्यात्परेऽहनि ' ॥ इति शौनकः– ‘अर्धरात्रे तु केषाञ्चित् दशम्या वेध इष्यते। अरुणोदयवेलायां नाक्काशो विचारणे । कपालवेध इत्याहुराचार्या ये हरिप्रियाः । न तत् मम मतं यस्मातूियामा राििरष्यते' । इति इदं वचनमरुणोदयवेधस्य नियमेन परिहरणीयत्वद्योतकम् । भविष्यपुराणे - 'दशमी तु कला काष्ठा अर्धरात्रेऽरुणोदये । विद्धा त्याज्या वैष्णवेन शुद्धाप्याधिक्यसम्भवे ॥ स्कान्दे – 'अरुणोदयकाले तु दशमी यदि दृश्यते । वैष्णवैः प्रतिहर्तव्यं तद्दिनकादशीव्रतम् ।। अरुणोदयकाले तु दशमी यदि दृश्यते । न तत्रैकादशी कार्या घर्मकामार्थनाशिनी ।। दशमीशेक्संयुक्तो यदि स्यादरुणोदयः । नैवोपेध्यं वैष्णवेन तस्मिनैदादशी व्रतम् ॥