पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] नारदः – ‘दशमीशेक्संयुक्ता गान्धार्या समुपोषिता । तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥ 'अतिवेधमहावेधौ ये चान्यतिथिषु स्मृताः । सर्वेऽप्यवेधा विज्ञेया वेधस्सूर्योदये मतः ॥ सूर्यसिद्धान्ते – 'सर्वाद्येताश्च तिथयः उदयादेव याः स्थिताः । शुद्धा इति हि विज्ञेया षष्टिर्नाड्यो हि वै तिथिः ॥ आदित्योदयवेलायामारभ्याषष्टिनाडिकः । या तिथिस्सा तु शुद्धा स्यात् सर्वतिथ्या अयं विधिः ॥ आदित्योदयमारभ्य पुनस्तस्योदयावधि । एकादशी सा विशुद्धा विद्धा स्याद्दशमीयुता । सर्वास्वपि तिथिष्वेव शुद्धाविद्धात्वनिश्चयः ॥ इतिं योगवेधस्य त्याज्यता स्मर्यते । एवं सामन्येनोक्तत्वाद्योगवेध एक परिहर्तव्य इति चेत्-तदसत् । प्रतिपत्प्रभृतयस्सर्वा उदयादोदयं रवेः । सम्पूर्णा इति विज्ञेया हरिवासरवर्जिताः' ।। इति स्कान्दवचनात्, अरुणोदयं यदा शुद्धं दशमीगन्धवर्जितम् सर्वपापविनिर्मुक्तमुपोप्यं तद्दिनं हरेः' ।। इति भविष्यपुराणक्चनाच एकादशीव्यतिरिक्तविषयत्वागतेर्योगवेभस्य । “मोहिन्यास्तु क्चश्श्रुत्वा सुरास्सर्वे महीपते । सचिन्त्य सुचिरं कालं दिगम्बरपुरोगमाः । यमस्य दर्शनार्थाय वैकुण्ठव्यसनाय च । पापण्डिनां विवृद्धय पापसञ्जनाय च ।