पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] स्कान्दे– 'सयूणैकादशी यत्र प्रभाते पुनरेव सा । तत्रोपवासेो विहितो वनस्थस्य यतेतवा । क्षिवायाश्च तत्रैव परतो द्वादशी न चेत् । पूर्वत्रैव गृहस्यानां नारीणां ब्रह्मचारिणाम्' ॥ बह्निपुराणे- ‘एकादशी तु सम्पूर्ण प्रभाते पुनरेव सा । पूर्वमुपवसेत्कामी निष्कामस्तूतरां सदा । पूर्वं क्रतुशतं तत्र त्रयोदश्यान्तु पारणम्' । इति शुद्धलक्षणम् यथा-- गारुडे- ‘उद्यात् प्राक् यदा विप्र मुहूर्तद्वयसंयुता । सम्पूणैकादेशी ज्ञेया तत्रैवोपवसेद्गृही' ॥ भविष्यपुराणे – 'आदित्योदयवेलायाः प्राक् मुहूर्तद्वयसंयुता । एकादशी सा हि शुद्धा विद्धान्या परिकीर्तिता ॥ इति शुद्वैकादश्यक्किद्वादशीं प्रस्तुत्य नारदः । 'एकादशी भवेच्छुद्धा परतोऽपि न वर्धते । द्वादशी वर्धते वापि एकादश्यामुपोषयेत् ॥ न चेदेकादशी विद्धा द्वादशी परतः स्थिता । उपोष्यैकादशी तत्र यदीच्छेत्परमं पदम् ॥ पद्मपुराणे – 'एकादशी भवेच्छुदा परतोऽपि न वर्धते । उपोष्यैकादशी शुद्धा द्वादश्यप्यधिकापि च ॥ स्कन्दे– ‘एकादशी भवेत्पूर्णा द्वादश्यां नास्ति चेत्कल । द्वादशी च त्रयोदश्यां कला काष्ठापि विद्यते । उपोष्यैकादशी शुद्धा द्वादश्यामेव पारणम्' ।। व्यासः– ‘एकादशी तु सम्पूर्ण अपरेऽहनि वर्धते । द्वादशी वर्धते वापि एकादश्यामुपोषयेत् ॥