पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशी द्वादशी च रात्रिशेषे योदशी । त्रिभिर्या सा तिविः कार्या सर्वपापहरा स्मृता ॥ समुच्चये– ‘द्विस्मृगेकादशी यत्र तत्र सन्निहितो हरिः । पुण्यं ऋतुशतस्योक्तं त्रयोदश्यान्तु पारणम् ॥ स्कान्दे– 'द्वादशीसङ्गता यत्र भक्त्येकादशी तिथि । दिनक्षयेऽपि सा पुण्या न च त्याज्या कदाचन ॥ चत्रिकायाम् – 'एकादशी द्वादशी च रात्रिशेषे स्रयोदशी । त्रिस्पृशी नाम सा प्रोक्ता ब्रह्महत्यं व्यपोहति । तत्र ऋतुशतं पुण्यं त्रयोदश्यान्तु पारणम् ॥ एकदशी द्वादशी च रात्रिशेषे त्रयोदशी । यत्त - त्रिहस्पृगहोरात्रं सोपोष्यं तत्सुताधिभिः ॥ एकादशी द्वादशी च रात्रिशेषेस्रयोदशी । उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः । इति क्चनम्, तत् तिथित्रयप्रयुक्तोपवासनिषेधपरम् । नैकादशीविषयम् । तदुपवासस्य नित्यत्वेनावश्यकर्तव्यत्वात् । स्कान्दे – 'शुद्धं हरिदिनं न स्याङ्कादशीं ग्राहयेत्तदा । द्वादश्यामुपवासोऽत्र तयोदश्यान्तु पारणम् । अन्यथा कुरुते यस्तु स याति नरकं ध्रुवम् ॥ कात्यायनः- 'दशम्यनुगता हन्ति द्वादशद्वादशीफलम् । त्रयोदश्यान्तु पारणम्' ।। तत्प्रयुक्तोपवासस्य निषेधोऽयमुदाहृतः । प्रयुक्तयन्तरयुक्तस्य न विधिर्न निषेधनम् ।। तत्प्रयुक्त-सङ्क्रांत्यादिप्रयुक्तम् । प्रयुक्तषन्तरयुक्तस्व-नियैका दश्युपवासविधेः । १