पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] एकादशीमुपोष्याथ द्वादशीमप्युपोषयेत् । अन्यथा नरकं याति यावदिन्द्राश्चतुर्दश । न तत्र विधिलोफ्स्यादुभयोर्देवता हरिः ? ॥ इति श्रवणद्वादशीविषये नारदः ।।

  • शुक्रा वा यदि वा कृष्णा द्वादर्शी अक्णान्विता ।

तयोरेवोपवासस्यात् त्रयोदश्यान्तु पारणम् । एकादश्यामविद्धायां सम्प्राप्त श्रवणं तथा । उपोष्या द्वादशी तत्र सर्वपापक्षयावहा' ॥ 'यदा खेकादशी शुद्धा द्वादशी श्रवणान्विता । शुद्धामेकादशीं त्यक्ता द्वादशीं समुपोषयेत् । मात्स्थे – 'द्वादश्यां शुकपक्षस्य नक्षत्रं श्रवण यदि । उपोष्या द्वादशी तत्र हरिमभ्यर्चयेन्नरः । । स्मृतःि .. 'द्वादशीं श्रवणोपेतां यो नोपोष्यति दुर्मतिः । पञ्चसंवत्संरकृतं पुण्यं तस्य विनश्यति । । स्कान्दे – 'यदि स्याद्दशमीविद्धा श्रवणक्षसमन्विता । शुद्धामेकादशीं त्यक्ता विद्धां तामुपवासयेत् । । प्रवणेन युता सा वेङ्कादशी केवला अपि । एकादशीं तदा त्यक्ता द्वादशीमुफ्वासयेत् ' ॥ 'द्वादशी तु प्रकर्तव्या एकादश्यन्विता विभो । सदा कार्या तु विधिवद्विष्णुभतैश्च मानवैः । भद्रे तु द्वादशी शुक्रा श्रवणसमन्विता । महती सा तु विज्ञेया तस्यामुत्तिष्ठवे हरिः ॥ उपोषितो नरस्तत्र कुर्यान्मासाकिोत्सवम् । तिदिनक्षतयोर्योगो योगवैव नराधिप! ॥ किो यदि लभ्येत स योगोऽप्यदृषा मतः । । 37