पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० भी श्रीनिवासनलित-तात्पर्थचिन्तामणिसहितम् [द्वितीय प्रश्ने स्कान्दे नागरखण्डे ॥ 'योगन्नतेषु सर्वेषु यांगकालशुभावहः । उपवासादिकार्येषु घटेिकैकाऽथ शस्यते ॥ श्रीविष्यपुराणे-'याः काश्च तिथयः प्रोक्ताः पुण्यनक्षत्रयोगतः । तास्वेव तद्रतं कुर्यात् श्रवणद्वाहशीं विना । द्वादशी श्रवणे युक्ता कृत्वा पुण्यतमा तिथिः । न तु सा तेन संयुक्ता ताक्त्येव प्रशस्यते ॥ स्कान्दे – 'द्वादशी अवणे युक्ता द्विधा भूता यदा भवेत् । उपोषणं परेऽह्नि स्यात्स्रानं वा देवतार्चनम् ' ।। भविष्यपुराणे 'एकादशी यदा शुद्धा द्वादशी श्रवणान्क्तिा । उपवासद्वयं कुर्यादशक्तौ द्वाद्वशीमिति' ॥ एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् । न चात्र विधिलोपोऽस्ति उभयोर्देवता हरिः ॥ विष्ध – त्कान्दे- 'एकादशी भवेच्छुद्धा द्वादर्शी श्रवणान्विता । उपवासद्वयं कुर्यात्पूर्वपक्षे भवेद्यदि । उपोष्य द्वादशीं वापि विष्वक्षेण समन्विताम् । एकादश्युद्भवं पुण्यं सद्यः प्रामेोत्यसंशयम् । 'एकादशी द्वादशी च नक्षत्रे श्रवणं यदि । सा विष्णुश्रृङ्खल नाम सर्वपापप्रणाशिनी ।। 'द्वादशी श्रवणक्षञ्च स्पृशेदेकादशीं यदि । सा विष्णुश्रृंखला नाम सायुज्यफळदा स्मृता । तस्यां तीर्थेषु च खानं जपं वा देक्तार्चनम् । दानञ्च महदयं वा श्राद्धं वा द्वबभेोजनम् ।