पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] यथा - स्कान्दे - बाराहे– ब्रह्मवैवर्ते– प्राणामिहोत्रमन्तांस्तु निरुद्धे भोजने जपेत् । वर्तमानेऽमिहोत्रे तु नोपवासः कदाचन ॥ ब्रह्मचारी गृहस्थो वा योऽनक्षेस्तु तपश्चरेत् । प्राणामिहोलीपेन इक्कीणीं भवेतु सः । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । क्नस्थयतिधर्मोऽयं शुक्रामेव सदा गृही । । 'एकादश्यामुपक्सेत्पक्षयोरुभयोरपि । वनस्थयतिधर्मोऽयं शुक्रामेव सदा गृही ' ॥ ‘एकाश्यां न भुञ्जीत पक्षयोरुभयोरपि । ब्रह्मचारी च नारी च नोपोप्याः पुत्रवान् गृही । । 'उन्मीलनी वञ्जुला च विस्पृशी पक्षवर्धिनी । जया च विजया चैव जयन्ती पापनाशिनी । द्वादश्योऽष्टौ महापुण्याः सर्वपापहराः स्मृताः ॥ इति तिथियोगेन जायन्ते चतस्रग्ध परास्तथा । नक्षत्रोयोगात् प्रबलं पापं प्रशमयन्ति ताः ।। उन्मीलनी भृगुश्रेष्ठ! कथिता पापनाशिनी । द्वादश्यामुपवासस्तु द्वादश्यामेव पारणम् । एकादशी तु सम्पूर्णा द्वादशी वृद्धिगमिनी । वञ्जुल नाम सा प्रोक्ता हत्यायुतविनाशिनी ॥ अरुणोदय आद्या स्याङ्कादशी सकलं दिनम् । अन्न त्रयोदशी भद्रा त्रिस्पृशा सा हरेः प्रिया । कुङ्कराके यदा बृद्धिं प्रयाते पक्षवर्धिनी । दिायैकादशीं तल द्वादशीं समुपोषयेत् ॥