पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृत्यन्तरे– श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने पुष्यश्रवणपुष्याद्याः (?) रोहिणीसंयुताः कृताः । उपोषिता महापुण्याः द्वादश्योऽष्टौ पृथक् पृथक् ॥ ब्रह्मन्नमपि सा पूर्वा विशोधयति भार्गव!। वाञ्जुलेति द्वितीया सा हत्यायुतविनाशिनी ।। महापापानि चत्वारि शोषयेतिस्पृशा कृता । कुरुतेऽशेषकलुषशमनं पक्षवर्धिनी ।। जया जयन्ती विजया प्रेतमोक्षं तथा परा । जयन्ती नरकच्छेदा अपि दुष्कृतकारिणाम् । अष्टम्यान्तु भृगुश्रेष्ठ! महापातकनाशिनी । करिष्यन्ति न ये लोभाद्वादश्योऽौ महाफलाः । तेषां यमपुरे. वासः याक्दाभूतसम्वम्’ ॥ 'तिथयः प्रतिपन्मुख्याः पक्षयोरुभयोरपि । पूर्वया परया तिथ्या विद्धा खेते मुहूर्तकैः । चतुर्दशी पञ्चमी च ििवष्षभिर्मुहूर्तकैः । दशमी कलयाप्याह नाधस्सप्तमुहूर्तकैः ॥ क्षयगायां तिथौ पूर्वा वृद्धिगायां परा स्मृता । समायामपि नैव स्यादेतद्धीश्वरभाषितम् । अक्दापूर्णिमा ... ... भूतोऽष्टम्यसिते तिथौ । षष्ठी रम्भातृतीयैकादशी कृष्णत्रयोदशी ॥ चतुर्वी त्वपरा युग्मेत्येताः पूर्वाः परान्क्तिाः । प्रतिपत्पञ्चमी कृष्णाऽष्टमी भूता च सप्तमी । नवमी दशमी शुक्रतयोदश्यः श्रुतिर्हरेः । हत्यिमा प्रैर्णमासी चतुर्थी गुणसंयुता । रम्भातृतीया चेत्येताः उपोप्याः पूर्वसंयुताः ।