पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] पैठौनसिः – ‘युमाग्रियुगभूतानि षण्मुनी क्सुरन्ध्रके । रुद्रेण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा । प्रतिपद्याप्यमावास्या त्रयोदश्या चतुर्दशी । एतद्युम्मं महापुण्यं प्रवदन्ति मनीषिणः । व्यस्तमेनन्महादोषो हन्ति पुण्यं पुगतनम् । । युमं द्वितीया-अमिस्तृतीया-युगं चतुर्थी-भूतम् पञ्चमी – षट् षष्ठी-मुनिः सप्तमी- वसुरष्टमी – रन्ध्र नवमी-रद्रः एकादशी-द्वादशी श्रवणद्वादशी-एतद्युग्मै-तिथिद्वयं, व्रतोपवासादिषु पूज्यम् । व्यस्तं वियुक्तं द्वितीया प्रतिपद्युक्ता-तृतीयायुक्ता चतुर्थीत्येवं पृथक्तिथियुक्ता पुण्यविनाशिनी अतः एकादशीयुतैव श्रवणद्वादश्युपोष्या , न तु त्रयोदशीयुक्ता । 'हन्ति पुण्यं पुरातन / मिति स्मृते । 'नागविद्धा तु षष्ठी या रुद्रविद्धो दिवाकरः । कामविद्धो भवेद्विष्णुः न ग्रह्मास्ते तु वासराः' ।। नागः पञ्चमी-रुद्धः एकादशी-दिवाकरः द्वादशी-कामक्षयोदशी: - विष्णुः श्रवणद्वादशी । वेधे नियममाह पैठीनसिः 'पक्षद्वयेऽपि तिथयस्तिथिं पूर्वा तथोत्तराम् । त्रिभिर्मुहूर्तेः विद्धयन्ति सामान्योऽयं विधिस्मृतः । । अयमर्थः-उदयानन्तरं पूर्वा ििथः त्रिमुहूर्ता चेत्सा परां विद्धयति : परेद्युरस्तमयात्मागुत्तरा विमुहूर्ता चेत् सा पूर्वा तिथिं विद्धयति इति । तदेतत्सङ्गृहीतं कालनिर्णये । 'उदये पूर्वया तिथ्या विद्धयते त्रिमुहूर्तकैः । सायं तूत्तरया तद्वत्, न्यूनया तु न विद्धयते ? ॥ इति