पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासणविकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीथ प्रश्न यथेष्टदिनमालोक्य कल्पयेत्तीर्थऋक्षकम् । मेषादिद्वादशे मासे इष्ट निश्चित्य यज्ञतः ॥ प्रत्यब्दं तु विशेषेण कल्पयेत स्वशक्तितः । एवं कालोत्सवं कुर्यात् शास्रदृष्टन वत्र्मना । इति ऋक्षप्रधानतया यत्र तीर्थः क्रियते तत्र सौरमासः । तत्रैव पवित्रा रोपणमधिकृत्य चान्द्रमसमासः प्रतिपाद्यते 'आषाढे आवणे चैव मासे भाद्रपदे तु वा । एवं मासे सिते पक्षे द्वादश्यां रोपणं हरेः । एतावान्दमसा वापि सौरा वापि च कारयेत्' । इति चन्द्रमसत्वेन प्रतिपादिता आषाढादयो व पूर्वोक्तमेषादयस्ौरा वा इत्यर्थः । यदि चन्द्रमसमासा दोषदुष्टस्युः तदा सौरा एवेत्यभिप्रायेणोक्तं सौरा वा अपीति । चान्द्रमसमासदोषानुपपादयति यथा संसर्पश्वाधिमास तिथिश्शून्यं दिनत्रयम् । दशम्येकादशीमेिश्रे मासशून्यं तथैव च । अंहस्पतियुतं यत्र अन्यदोषादिना युतम् । ऐतैर्दोधैर्युतं यत्र नन्न त्करोपणं न च । । इति एवं दोषदुष्टषु मासेषु प्रतिषिद्ध प्रतिप्रसव उच्यते । कर्तुम्च त्वरिते चैव नृपस्याशापना यदि । तत्रैवारोपयेद्विानुक्तदोषो न लिप्यते ॥ इति 'स्वैौ तुलागते चैव न कुर्यादिति शासनम्' । इति च 'अथातस्समवक्ष्यामि पवित्रारोपणं हरेः । इत्यारभ्य