पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मार्कण्डेये- ‘प्राजापत्येन संयुक्ता कृष्णा नभसि चाष्टमी । अवन्ती नाम सा प्रोक्ता सा कुपोप्या महाफला ? ॥ भविष्योत्तरे- ‘श्रावणे हुले पक्षे कृष्णजन्माष्टमीव्रतम् । न करोति नरो यस्तु भवति कूरराक्षसः' ।। स्कान् – ‘प्राबाफ्यसंयुक्ता अष्टमी तु यदा भवेत् । बाकणे क्हुले सा तु सर्वपापप्रणाशिनी ।। रहस्ये- ‘प्राजापत्यक्षसंयुक्ता कृष्णा नमसि चाष्टमी । मुहूर्तमपि लभ्येत सैवोपोप्या महाफला । मुहूर्तमप्यहोरात्रं यस्मिन् युक्त हि लभ्यते । अष्टम्यां रोहिणीऋक्ष तां सुपुण्यामुपावसेत् ।। ग्रन्थान्तरे - 'रोहिणी तु यदाऽष्टम्यां कृष्णायां श्रावणे भवेत् । जयन्नी नाम मा प्रोक्ता न तु भाद्रपदाऽष्टमां ' || प्रेतयोनिगतानाञ्च प्रेतत्वं नाशित नरः । यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता ॥ किं पुनर्बुधवारेण सोमेनापि समन्विता । किं पुनर्नवमीयुक्ता कुलकोठ्यास्तु मुक्तिदा ॥ एकलिप्ताष्टर्मविद्धा नवमी बुधसंयुता । रोहिणी चार्धरात्रे तु जयन्नी चोत्तमोत्तमा । । जयन्ती त्रिविधा । 'सोमवारे तु सम्प्राप्त नभोमासेऽसिताष्टमी । रोहिणीसहिता सा चेजयन्ती ब्रह्मसंज्ञिता | नभस्वसितरोहिण्यां सौम्यवारयुताऽष्टमी । जयन्ती विष्णुसंज्ञा च सर्वसिद्धिमदा नृणाम् ।