पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामभितहितम् [द्वितीय शल्ले कृष्णजन्माष्टमीं त्यक्ता योऽन्यं ऋतमुपाश्रयेत् । नामोति सुकृतं किञ्चिदिष्टापूर्तमथापि वा । वर्षे वर्षे तु या नारी कृष्णजन्माष्टमीव्रतम् । न करोति महाप्तीहा व्याली भवति कानने । । विष्धर्मे - ‘जयन्त्यामुपवासश्च महापातकनाशनः । सर्वेः कार्यो महाभतया पूजनीयश्ध केशवः' ।। अथ निशीथयोगस्य जन्माष्टमीत्वं स्मर्यते । ‘श्रावणे मासि या कृष्णा अर्धरात्रयुताष्टमी । जन्माष्टमीं भवेत्सैव जयन्ती रोहिणीयुता । जन्माष्टमीं तथा त्यक्ता जयन्यां व्रतमाचरेत् । । स्कान्दे – 'कृष्णाष्टमी श्रावणे तु प्रदोषे वार्धरात्रगा । जन्माष्टमी तु विज्ञेया सर्वपातकनाशिनी । कूर्याचैवोत्सवान्तेन व्रती कुर्वीत पारणम्' ।। नारदीये - 'अर्धरात्रयुताष्टम्यां सोऽश्वमेधफलं लभेत् । जन्माष्टमी जयन्ती च शिवरात्रिश्चतुर्दशी । पूर्वविद्वैव कर्तव्या परविद्धा न कस्यचित् । । 'कार्या विद्धाऽपि सप्तम्या रोहिणीसंयुताऽष्टमी । जयन्ती शिवरात्रिश्च कायें भद्राजयान्विते । । आदित्यपुराणे- '। अर्धरात्रद्वयं वापि कृष्णजन्माष्टमी भवेत् पैरवोपोषणं कुर्याजागरं विष्णुपूजनम् । अर्धरात्रस्पर्शिनी वा शून्ये वाीि दिनद्वये । प्रदोषव्यापिनी ग्राह्याः (कृष्णजन्म!) ऋते सदा । दिनद्वयेऽर्धरात्रे तु कृष्णजन्माष्टमी भवेत् । प्रदोषव्यापिनी ग्राह्या नक्त वापि प्रदोषग ।