पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्इ:] श्रीवैखानसगृह्यसूत्रम् कृष्णाष्टमी स्कन्दषष्टिः शिवरात्रिश्चतुर्दशी । एताः पूर्वयुताः कुर्यातिथ्यन्ते पारणं भवेत् । जन्माष्टमी जयन्ती च शिवरात्रिश्चतुर्दशी । पूर्वविद्वैव कर्तव्या परविद्धा न कस्यक्त्'ि ।। इति स्कान्दक्चनम् श्रीवैखानसवैष्णवव्यतिरिक्तविषयम् । एकादश्यां जयन्याश्च ब्रते . चानन्तसंज्ञिते । पूर्वविद्धा तिथिस्त्याज्या पूर्वपुण्यविनाशिनी । । इति पुराणान्तरवचनम् । एवं च निशीथयोगप्रदोषकालयोग(वती) जन्माष्टमी श्रीवैखानसादिवैष्णवळ्यतिरिक्तविषया । । अथ पाञ्चरात्रविषये, अनिरुद्धसंहितायाम् कृष्णाष्टमी नभम्ये वा पूर्वविद्धाऽरुणोदये सरोहिणी जयन्तीति प्रोक्ता चन्द्रोदये यदि ' ।। परवसंहितायाम --'सम्पूर्णा रोहिणी यत्र सप्तमी न भवेद्यदि । रोहिण्यामेव कुर्वीत कृष्णजन्मार्चनादिकम् ।। वसिष्ठसंहितायाम्-*। अष्टम्या वा नक्भ्यां वा दशभ्यामथवा पुन रोहिणी तु यदा कृष्णे पक्षे ग्राह्माऽमिवर्जिता । अमित्रेधे तु रोहिण्या हन्ति पुष्यं पुराकृतम्' । इति

  • नस्मान्पञ्चाननस्थेऽकें घटिकैकापि शस्यते ।

वामरे वा निशायां वा यत्र कुत्रापि रोहिणी । विशेषेण नभोमासे सैवोपोप्या मनीषिभिः' ।। सागरसंहितायाम्-“अधातस्सम्प्रवक्ष्यामि जयन्तीनिर्णयं परम् । सिंहराशिगते सूर्ये गगने जलदाकुले । मासि प्रोष्ठपदेऽष्टम्यामर्धराखे विधूदये । बुधवारे वृषे मे रोहिण्याश्रमांशके ।।