पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वष्टः] श्रीबैलानसगृह्यसूत्रम् सैौम्याग्नेययुना वापि तां जयन्तीं विदुर्बुधः । जया दिनप्रधाना स्याज्जयन्ती च तथा तिथिः ।। जयाऽचैनन्त मध्याहे पूजयेद्राघवं बुधः । चन्द्रोदये जयन्यां वै कृष्णं बै पूजयेत्तथा ।। अत्रिः – “श्रावणे मासि तस्मिश्च कृष्णपक्षे विशेषतः । अष्टमी रोहिणीयुक्ता सा जयन्तीति कीर्तिता । । मरीचिः “ 'अस्मिन् मासे (श्रावणमासे) कृष्णपक्षे अष्टमी रोहिणीयुक्ता वियुक्ता वा जयन्तीति कीत्यैते । इति जनने जन्मनक्षत्रं मरणे तिथिरुच्यते । तस्मात् जन्मनक्षत्रयोगः कृष्णदिने भृगो ' ।। इति जन्ममरणादे मनुष्यैविषयत्वात् जन्मनक्षत्र(योगस्य) तन्त्रिकविषयत्वात् जन्मनक्षत्रं () केवलमेव वैदिकविषयं भवति । अतो विद्धाऽष्टमी त्याज्या । सूर्योदयविद्धाया एव प्राधान्येन त्याज्यता । तिथिक्षयादौ “पूर्वविद्धा यथा नन्दे' त्यादिवचनानुसारेण अरुणोदय वेधम्त्याज्यः । आराधनादिकं चन्द्रोदयवेलायामेव । 'अतिवेधो महावेधो ये चान्ये तिथिषु स्मृताः ! सर्वेऽप्यवेधा विज्ञेया वेधस्सूर्योदये मतः' इति योगवेधस्य प्राधान्यस्मरणात् तिथिक्ष्यादावतिवेधमहावेधौ परिहरणीयौ । श्रीरामनवमीविषयेऽप्येवमेव । इत्युक्तत्वात् । स्मृत्यन्तरे – 'यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथिस्सकला ज्ञेया दानाध्ययनकर्मसु' ॥ भविष्यत्पुराणे - ‘शुक्रुपक्षे तिथिमद्या यस्य मभ्युदितो रविः । कृष्णपक्षे तिथिर्माद्या यस्यमस्तमितो रविः' ।। 4() 'जया दिनप्रधाना म्याज्जयन्ती च तथा तिथिः । । , ३१६