पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] 'पक्षद्वयेऽपि कलया तििथं पूर्वी तथोत्तरा । त्रिभिर्मुहूर्तेर्विद्धयान्ति सामान्योऽयं विधिस्मृतः । इति पैठीनसिस्मरणाञ्च षट्घटिकामात्रमष्टमी स्थिता चेन्नवमी त्याज्या । चतुर्दश्यामप्येवमेव । मातविषये केचित्(?) । ऋश्यभृङ्गः - 'अविद्धानि निषिद्वैश्च न लभ्यन्ते दिनानि तु । मुहूर्तेः पञ्चभिर्विद्धा ग्रह्माप्येकादशी तिथिः । नदर्धविद्धान्यन्यानि दिनान्युपवसेद्वती' । इति श्रीवैखानसगृह्यसूत्रम् अथ पारणविषये सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते । अन्यथा नत्फलस्यार्ध धर्ममेवोपसर्पति ? ॥ इति 'तिथ्यूक्ष्योस्तु निगमे परेद्युः पारयेद्रती । । इति च सागरसंहितादिषुक्तत्वाच परेद्युः पारणं कर्तव्यम् । अत्र कचिदेवमाहुः । 'भक्तानां वैष्णवानाञ्च शुद्धानां नियतात्मनाम् । विहिता सात्वताभिशैः रात्रावेव तु पारणम् । उत्सावान्ते च तिथ्यन्ते ब्रती कुर्याच पारणम् । पञ्चकालरतानाश्च दीक्षितैकान्तिनामपि । भतैर्भागक्तैस्सार्ध रात्रावेव तु पारणम् । इति पाञ्चरात्रे अनन्नसंहितायामुक्तत्वात् दिवापारणमवैष्णवविक्यमिति तस्त् ‘तिथ्यन्ते वाथ भान्ते वा उत्सवान्ते च पारणम् । कुक्कृष्णार्चनान्ते वा न कुर्यात्पारणं निशि । ।