पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने इति जयसंहितायां चतुर्धा पारणावसरमुक्ता निशि पारणं न कुर्यादिति किञ्च ‘तिथ्यूक्षयोर्यदा छेदो नक्षत्रान्तमथापि वा । अर्धरात्रेऽथवा कुर्यात्पारणं तत्परेऽहनि ।। अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं निशि । हन्यायुराकृतं पुण्यमुपवासार्जितं फलम्' ॥ इति प्रत्यवायस्मरणात् पाश्चरात्रस्य मोहशाखत्वेन कुण्डगोलकादिविषयत्वेन शप्तविषयत्वेन च श्रुतिषु पुराणेषु च तत्रतत्राक्गभ्यमानत्वाच तत्रोक्तदीक्षापर विषयम् तत् रात्रिपारणम् । किञ्च 'पारणान्तं व्रतं ज्ञेयं ब्रतान्ते विप्रभोजनम् । असमाप्ते व्रते पूर्वे नैव कुर्याद्रतान्तरम् । विष्णुधर्मोत्तरक्चनादसमाप्रव्रतस्य ब्रतान्तस्योभ्यतासम्भवात् श्राद्धादिकमपि त्यक्तव्यम् । अत एव रात्रौ पारणमयुक्तम्(?) । अहस्सु तिथयः पुण्याः कमनुष्ठानतो दिवा । रात्रितेषु सर्वेषु रात्रियोगः प्रशस्यते । । इत्युक्तरीत्या रामावतारस्य मध्याहकालत्वात् अगस्यसंहितादिषु परेद्युः पारण विधानाच सर्वास्वपि . जयन्तीषु परेद्युः पारणं सिद्धम् । अथ दौर्गनवमी विषये नक्मी पूर्वविद्वैव पक्षयोरुभयोरपि दुर्योत्थानस्य नवमी मध्याद्धयगामिनी पूर्वा मूलसंयुक्ता पृर्वतः परतो दिवा'। वृहदश्नः– श्रावणे दौर्गनवमी पूर्वा चैव हुताशनी' । पूर्वविद्धा तु कर्तव्या शिवरात्रिर्षलेर्दिनम् ।।