पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] पूर्वविद्धा सदा ग्राझा नक्मी मूलसंयुता । पूर्वतः परतो वापि मध्याह्नव्यापिनी शुभा । स्कान् -- ‘कुमारीपूजने त्याज्या नदम पूवसयुता । स्क्ल्पापि परतो ग्राह्या पूर्वतः परतोऽपि वा । सङ्ग्रहे – 'आश्वयुक्शुकपक्षस्य नवमी मूलसंयुता । सा महानवमी प्रोक्ता साऽपि चात्यन्तदुर्लभा । नवम्यावर्तनी ग्राह्या पूर्वतः परतोऽपि वा । मूलक्षयोग सा कार्या पूर्वतः परतोऽपि वा । आश्वयुक्प्रतिपत्काम्ये नवदुर्गार्चनं प्रति । पूर्वतः परतो वापि यस्मिन्नावर्तनी भवेत् । तस्यां व्रतमुष्क्रम्य नवदुर्गार्चनं प्रति । प्रत्यक्षं गन्धपुष्पाचैः क्रमात्प्रतिपदादिषु । तिथिष्वावर्तनाख्येषु नवम्यन्तेषु पूजयेत् । तिथिप्रयुक्तपूजायां तिथिप्वावर्तनं न चेत् ।। सा च पूर्वतिथिश्चैव सन्मुखः पूर्ववासरा(?) । आवर्तनद्वये तत्र नवम्येका भवेद्यदि । मूलक्षयोगे सा कार्या यदि न स्यात्परा शुभा । नवम्याञ्च जपं होमं समाप्य विधिवद्वलिम् ॥ यात्रां विजयिनां कुर्याद्दशम्यां श्रवणेऽपि वा' ॥ अथ दशमी । अङ्गिराः - 'सम्पूर्णा दशमी कार्या पूर्वया परया दिवा । युक्ता न दूषिता या स्यादिति सा सार्वतोमुखी' ॥ ब्रह्मचंबर्ते – 'दशमी चैव कर्तव्या नवम्या संयुता विभो । एकादश्यन्विता वापि सा कार्या द्विमुखी पुनः । ३१७