पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] अन्न भगवच्छास्र प्रकीर्णाधिकारे भृगुः “अतः परं प्रवक्ष्यामि देवेशस्योत्सवक्रमम् । विषुवायनभूपप्रतिष्ठाकर्तृमेषु च । ग्रहणे मासनक्षत्रे विष्णुपञ्चदिनेषु च' ।। उत्सवस्यान्यदिवसे तेषु तीर्थे प्रकल्पयेत् । अयने विषुवे चैव ग्रहणे सोमसूर्ययोः । तत्तत्काले प्रकुर्वीत तीर्थस्रानन्तु नान्यथा 1 ।। यज्ञाधिकारे – “ अत ऊध्र्व प्रवक्ष्यामि देवस्य स्नपनक्रमम् । प्रतिष्टोत्सक्योरन्त अयने विषुवद्वये । सूर्येन्द्रोग्रहणे चापि यत्नेन स्रपनं चरेत्'इत्यारभ्य देवस्य छूपनं कुर्यात्ततत्काले विशेषतः । विषुद्वये वर्तमाने ग्रहणे चन्द्रसूर्ययोः । अयने चोत्तरेऽतीते प्रारब्धे दक्षिणे तथा ' । इत्युक्तम् अर्चनाधिकारे– 'अत ऊध्वं प्रवक्ष्यामि कालं स्रपनकर्मणः । प्रारम्भातीतकाले तु दक्षिणोत्तरकेऽयने ।। विषुवद्वयकाले च वर्तमाने च सर्वदा । प्रम्यमाने रविग्राहे मुच्यमाने निशाकरे । । इत्यदिक्वनैः दक्षिणायने अतीते उत्तरायणादौ खानादिकं दक्षिणायनप्रारम्भे उत्तरायणान्ते च पुण्यकालश्च मंतिपादितः । अन्यथा ‘तत्तत्काले प्रकुर्वीत तीर्थानन्तु नान्यथा । इनि विधिनिषेधक्चनकैयथ्र्यप्रसङ्गः । अत श्रुतिरपि । ‘सन्धौ यजेत सन्धिमभितो यजेत । इति । सन्धिम्- सूक्ष्मत्वात्सन्धिकालस्य सन्धिर्विषम उच्यते । सामीप्यविषयं प्राहुः पूर्वतः परतोऽपि वा ।