पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्दः समः] श्रीवैखानसगृह्यसूत्रम् 'प्रभुः प्रथमधर्मे तु योऽनुकल्पेन वर्तते । न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम् ।। विधर्मः परधर्मश्ध आभास उपमा छलः । अधर्मशाखाः पञ्चेमः यतो धर्मवन् त्यजेत् । धर्मबाधो विधर्मः स्यात्परधर्मोऽन्यचोदितः । उपधर्मस्तु पाषण्डः दम्भो वाऽशंसुभिश्छलः । यस्विच्छया कृतं पुम्भिराभासो ह्याश्रमाहिः । ‘स्वपाके वर्तमानस्तु परपाकं निषेवते । शाश्वत सूकरत्वञ्च गर्दभत्वञ्च गच्छति । अवलिसस्य मूर्वस्य दुष्टवृत्तस्य दुर्मतेः । अन्नमश्रद्धधानस्य यो भुङ्क्ते भूणहा स वै ॥ यस्यान्न तु भुक्तन भार्या समधिगच्छति । यस्यान्ने तस्य ते पुत्राः अन्नाद्रेतः प्रवर्तते । सर्वन्तु तरितुं शक्यमन्नलेपो हि दुस्तरः । दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति । अभोज्यं ब्राह्मणस्यात्रं वृषलेन निमन्त्रितम् । तथैव वृषलस्यान्ने वृषलेन विनिर्मितम् ।।' कण्डूपकं स्नेहकं पायसं दधि सक्तवः । एतान्यशूद्रान्नभुजो भोज्यानि मनुरब्रवीत्' ॥ कटकर्प कण्डूपकम्(?) । याज्ञवल्क्यः – ‘न भार्यादर्शनेऽश्नीय()ात्रैकवासा न संवृत । ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन ॥ न तस्य दोषमिच्छन्ति नित्यमेव मनीषिणः । । म - 42 ३२९