पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रदनं विष्णुरत्ता तथैवान्ने परिणामश्च वै नथा । सत्येन तेन मे भुक्त जीर्यत्वन्नमिदं तथा ।। इत्युचार्य स्वहस्तेन सम्माज्यं च तथेदरम् । अनायासप्रदान्येव कुर्यात्कर्माण्यतन्द्रितः । । ताम्बूलविषये - 'एकपूगं सदाऽऽरोग्यं द्विपूगं निष्फलं भवेत् । अतिश्रेष्ठ त्रिपूगं चेत् अधिकं चेन्न दोषकृत् । एकद्वित्रिचतुःपञ्चषभिः पूगफलैः क्रमात् । ॥ पर्णमूले भवेद्याधिः पर्णाग्रे व्याधिसम्भवः । चूर्णपणे हरेदायुः सिरा बुद्धिविनाशिनी ।। अकृत्वा च मुखेपर्ण पूगं खादति यो नरः । दशजन्मदरिद्रस्तु मरणं न स्मरेद्धरिम् । ३३२ एवं सायं प्रातः प्राणान्निहोत्रं यजेत ।। ५ ।। एवम्- उक्तमकारण । याज्ञवल्क्यः – “ललाटसमिते भानौ प्रथमः प्रहरः स्मृतः । स एवाध्यधसंयुक्तः प्रातरुक्तो मनीषिभि । । बाह – 'यामादर्वाङ् न भुञ्जीत यामयुमं न लहयेत् । रात्रौ यामान्तरे भुक्ता सुप्वा यामत्रयं सुखम्' ।। मध्याहः मुख्यकालः । सङ्गवात्परं मध्यकालः सङ्गवात् अर्वाक् अधमकालः? ननु – हरिवासरादिषु भोजननिषेधश्रवणात् प्राणामिहोत्रलोप इति चेत् । न-तन्मन्त्रजपेनैव तस्य पूरणात् । बोधायनः– ‘प्राणामिहोत्रमन्त्रांस्तु निषिद्धे भोजने जपेत् । । 'यं यं क्रतुमधीते तेन तेनास्येष्ट भवति । इति श्रुतिः