पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः ] श्रीवैखानसगृह्यसूत्रम् आत्मयाजिनामिदमिज्यमन्निहोत्रं यावज्जीवकमिति ब्रह्मवादिनी वदन्ति । ६ ।। आन्मयाजिनो गृहस्थादयः । योगिन इति केचित्-तदसत् । सर्वैरपि प्राणामिहोत्रस्य कर्तव्यत्वेन विवानात् । यथा - गृहस्थो ब्रह्मचारी वा योगी चैव तपश्चरन् । प्राणामिहोत्रलोपेन वकीर्णा भवेत्तु सः' । इति एवं क्रियाधिकारे-'गृहस्थो ब्रह्मचारी वा भक्तचैवार्चनमारभेत्' इत्युपक्रम्य– जुहोत्युदितहोमी चेत् कृत्वऽऽत्मयजनं ततः ? । इत्युक्तत्वाच ब्रह्मचर्यादारभ्य आत्मयाजिनः इदमिज्यमिदममिहोत्रम् अकरणे प्रत्यवायस्मरणात् नित्यत्वेन यजनीयम् । 'एतन्मूलास्तदप्रयः ' इति 'बहिः प्राणो वै मनुष्यस्तस्याशनं प्राणः' इति श्रुतेः, अन्नेन प्राणा' इत्यारभ्य तस्मादन्नं ददन्सर्वाण्येतानि ददाती' युक्तत्वाञ्च अशनाख्यप्राणमूलत्वाव गमाद्भार्हपत्याद्यमीनाम् । ३३३ 'नदेवं भुहु)ा गच्छन्तमनृणेो ब्रह्माऽम्येति पद 'मिति मामपूर्व माता पिता गुरु : पैतृकादिकमृणत्रयं जायमानस्य ब्राह्मणस्य सहजमित्युक्ता वाग्येदिति विज्ञायते ॥ ७ ॥ तत्-तस्मात् ब्रह्मप्राप्तिकारणात्, एवं-उक्तप्रकारेण । भु(हु)क्ता गच्छन्तम्-प्राणामिहोत्रमेवालमिति कृत्वा गच्छन्तम् । अनृण इत्यादि । क्षत्र श्रुनिः। 'जायमानो वै ब्राह्मणस्त्रिभिः ऋणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा' इत्यादि । ऋग्ब्राह्मणे । ‘नापुत्रस्य लोकोऽति तत्सर्वे पशवो विदु' रिति। 'प्रजननं वै प्रतिष्ठा साधु प्रजायास्तन्तुं तन्वानः िपतृणामनृणो भवति तदेव तस्यानृण्य । मित्यादि ।

  • ऋणिनो मानवा ब्रह्मन् सर्वेऽजायन्त तच्छूणु ।

ब्रह्मचर्येण यज्ञेन प्रजया च न संशयः ॥