पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामनिसहितम् [तृतीय प्रश्न स्वयमेव कृत्वा कन्यामलङ्कृत्य ददातीति यत् स विवाहः प्राजापत्यो भवति । यद्रोमिथुनेनैकेन द्वाभ्यां वा कन्यां ददाति तमाषेमाचक्षते ॥ ७ एकं द्वे वा गोमिथुने क्रात् प्रतिगृह्य कन्यां ददातीत्यर्थ मन्वादयोक्दन्ति। यत्कन्यामाभरणमारोप्य शक्तया बन्धुभ्यो धनं दत्वाऽऽहरते तमासुरमामनन्ति ॥ ८ ॥ कामयोगो यदुभयोः स गान्धर्वः ॥ ९ ॥ क्रवध्वोरुभयोरपि कामेच्छया संयोग इति यत् स विवाहो गान्धर्वः । प्रसह्म यत्कन्याऽऽइरणं स राक्षसः ॥ १० ॥ क्लत्कृत्य कन्याऽऽहरण क्रियत इति यत् स राक्षसः । सुप्तां प्रमत्तां वा रहसि यच्छति स पैशाचो भवति ।। ११ ॥ सुप्तां प्रकर्षेण मतां बन्धुभिस्तया च न ज्ञातं गच्छति स पैशाचो भवति । अत्र मनुः– ‘ब्राम्रो दैक्स्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो राक्षसयैव पैशाचश्धाष्टमोऽधमः ॥ आच्छाद्य चाहयित्वाऽथ श्रुतशीलवते स्क्यम् । आहूय दानं कन्यायाः ब्राह्मो धर्मः प्रकीर्तितः ।। यज्ञे तु क्तिते सम्यगृत्विजे कर्म कुर्वते । अलकृत्य सुतादानं दैवं धर्म प्रचक्षते ॥ एक गोमिथुनं द्वे वा क्रादादाय धर्मतः । कन्यादानं विधिवदार्षे धर्मस्स उच्यते । सहोभौ चरतां धर्ममिति वाचाऽनुभाप्य तु । कन्यामदानमभ्यच्यं प्राजापत्यो विस्मृितः ॥ ज्ञातिभ्यो द्रविणं दत्वा कन्यायै वा स्वशक्तितः । कन्याऽऽदानं स्याच्छन्द्यादासुरो धर्म उच्यते ।