पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इच्छयाऽन्योन्यसंयोगः कथायाश्ध वरस्य च । गान्धर्वस्स विधिज्ञेयो मैथुन्यः कामसम्भवः । हत्वा भित्वा च जित्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्म कन्याहरणं राक्षसो विधिरुच्यते । सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति । स पापिष्ठो विवाहानां पैशाचः प्रथितोऽष्टमः' ॥ इति ३३९ एतेषां प्रथमे चत्वास्तोयप्रदानपूर्वकाइशस्ता ब्राह्मणस्य । नेतरे जघन्याः ।। १२ ।। पडानुपूब्र्या विप्रस्य क्षत्रस्य चतुरोऽक्रान् । विट्च्छूद्रयोस्तु तानेव विद्याद्धम्र्यानराक्षसान् ॥ चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः । राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः । पञ्चानान्तु त्रयो धम्य द्वावधक्यों स्मृताविह । पैशाचश्वासुरथैव न कर्तव्यौ कदाचन । पृथक् पृथवा मिश्रौ वा विवाहौ पूर्वचोदितै। गान्धर्वो राक्षसचैव धम्यौं क्षत्रस्य तैौ स्मृतौ ॥ इति तथा:- 'अद्भिरेव द्विजाम्रयाणां कन्यादानं प्रशस्यते । इतरेषान्तु वर्णानामितरेतरकाम्यया । एवं क्विाहाश्चत्वारो धम्र्यास्तोयप्रदानकः । अशुल्का ब्राह्मणाश्च तारयन्ति द्वयोः कुलम् ॥ विवाहाश्वाष्टधा भिला ब्राह्माद्या मुनिसत्तम । पूर्वः पूर्वो वरो ज्ञेयः पूर्वाभावे परः परः ॥ क्रीता द्रव्येण या कन्या न सा पली विधीयते । न सा देवे च पित्र्ये च दासीं तां काश्यपोऽब्रवीत् ।