पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासनखित-तात्पर्मचिन्तामणिसहितन् [तृतीय: प्रश्ने बणः- ' न कन्यायाः पिता विद्वान् गृह्णीयाच्छुकमण्वपि । गृह्मन् शुल्कं हि लोमेन स्यान्नरोऽपप्यविक्रयी) ॥

  • कन्यान्तु जीवनार्थाय यश्शुल्केन प्रयच्छति ।

उपभुङ्के पुरीषञ्च मूत्रञ्चास्याः परत्र च ।। मनुः- 'यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत्कुमारीणामानृशंस्यञ्च केवलम्' । इति स्मृत्थन्तरे – 'निष्कषट्कमशक्तश्चेदन्यथा दोघमर्हति' । इति ननु यथासुरदयो विवाहा निषिद्धाः तर्हि किमर्थं प्रतिपादिताः इति चेत्-उच्यते । कामादिदोषवशात् ब्राह्मादिविवाहासम्भवात्,

  • आश्रमादाश्रमं गच्छेन्न च तिष्ठदनाश्रमी' । इति स्मृते

'यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परित्राडापि मैलय स नमः पापकृन्नर ' ।। इत्यनाश्रमिणो महादोषस्मरणाच दोषलाघवाभिप्रायेणासुराद्याः प्रतिपादिताः । अत्र वत्सः सर्वोपाथेन साध्या स्यात्सुकन्या पुरुषस्य या । शैौर्येणापि विवाहेण सा विवाह्या रहः स्थिता । । इति गान्धर्वादिषु च समन्त्रक पश्धाद्विवाहविधिरुच्यते । यथा देवलः– 'गान्धर्वादिक्विाहेषु पुनर्वैवाहिको विधिः । कर्तव्यश्च त्रिवणैश्ध समस्तैरसिाक्षिक 'मिति । पराशरः- 'गान्धर्वासुरैवैशाचक्विाहा राक्षसश्च यः । पूर्वं परिग्रहस्तेषां पश्चाद्धर्मो विधीयते' । इति आफ्यभावे पूर्वेषामासुराद्यास्समत्रकम् । ब्राह्मणो विविक्कुर्यात्परात्पूर्वो विशिष्यते ॥