पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ क्षतयोनित्वमिति पंचमः पक्षोस्विति चेत्-सोपि न साधुः, ईष्र्या()षण्डादयो ये च चत्वारः समुदाहृताः । त्यक्तयास्ते पतितवत् क्षतयोन्याऽपि व ख्रिया' ।। इति स्मृतेरिति चेत्-उच्यते । शेषहोमान्ते संगमनविधानात्, 'सोमः प्रथमो विविदे गन्धर्वो विवद उत्तरः । तृतीयो अनिष्ट पतिस्तुरीयन्ते मनुष्यजः। इति, 'सोमोऽददद्वन्धर्वाय गन्धर्वोऽददमये । रयिञ्च पुत्रा'श्चादादभिर्मह्यमधो इमम्' । इति । 'चतुर्थेऽ िमनुप्यस्तु पतित्वं लभतेति च । । रोमकाले तु सम्प्राने सोमो भुङ्क्तऽथ कन्यकाम् । रजो दृष्टथ गन्धर्वः कुचौ दृष्टा तु पावकः' । सोमश्शौचं ददौ तेषां(तासां) गन्धर्वस्तु शुभां गिरम् । पावकम्मर्वमेध्यत्वमतो मेध्याः स्त्रियस्मृता ॥ इति शातातपः - ‘वरश्चेत्कुलशीलाभ्यां न युज्येत कथञ्चन । न मन्त्राः कारण नत्र नत्र कन्यानृत भवत् । उद्वहिता च .या कन्या सम्प्राप्ता न च मैथुनम् । भर्तारं पुनरभ्येति यथा कन्या तथैव सा । समाक्षिप्य तु तां कन्यां बलादक्षतयोनिकाम् । पुनर्गुणवते दद्यादिति शातातपोऽब्रवीत्' ॥ इति श्रुति-स्मृतिवचनेभ्यः प्रतिगृह्य पाणिग्रहणसंस्कारादारभ्य शेषहोमान्त संगमनपर्यन्तम् भार्यात्वे नियामकमिति राद्धान्तः । अज्ञेयं व्यवस्था । अयं युगान्तरविषयो राद्धान्तः । यद्वा कन्याक्रयोः दोषदुष्टत्वविषयो वा । 'सप्त पौनर्भवाः' इत्युक्तत्वात् । तथा च ‘इदं सप्तपदा भवेदित्यादिवचनैः उदकदानमारभ्य मांगल्यसूत्रधारणान्तमित्यगीकरणीयम् । मांगल्यसूत्रधारणान्तछेत्पतित्वं अक्षतयोनिश्चेदेव सम्भवति। क्षतयोनिश्रेन संभवति।