पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने ‘न कन्या दर्शनेनैव न पाणिग्रहणेन च। न सप्तपद्याक्रमणे पतेिरौपासने विधि ? रिति । कात्यायनः– ‘प्रदाय शुल्कं गच्छेद्यः कन्यायाः स्त्रीधनं तथा । धार्या सा वर्षमेकन्तु देयाऽन्यस्मै विधानतः । भदछयो हि न दंडायामनूढायान्तु तत्र वै (नद्वरः) । पुरागतश्ध सर्वेषां सहते तदिमां सुताम् । अथागच्छेत वोढायां दत्तां पूर्ववरो हरेत् ’(१) ॥ इति अतो ब्राझणस्य नेतरे जघन्या इत्युक्तम् । यस्मात् त्रीन् पूर्वान् त्रीनपरान् आर्षी जातः षट्पूर्वान् षडपरान् प्राजापत्येनेोटाया जातः मप्त पूर्वान् सप्तावगन् दैवीजातो दश पूर्वान् दशावरानात्मानचैकविंशतिकं ब्राह्मीपुत्रः पावयेदिति विज्ञायते ॥१३॥ आजातः इत्यादि । गोद्वन्द्वप्रतिग्रहकारणात् त्रीन् पूर्वान् पितृ पितामहप्रपितामहान् त्रीनपरन् पुत्रपौत्रप्रपौत्रान् आत्मना सह सप्तपूरुषान् आर्षविवाहोढायां सवर्णायामनन्यपूर्विकायां जातः पुत्रः पावयेत् पूतान् कुर्यादित्यर्थः । एवं षट् पूर्वान् षडपरान् आत्मना सह त्रयोदश पुरुषान् प्राजा पत्येनोढायां पाणिग्रहणसंस्कारसंस्कृतायां जातः पावयेत् । सप्त पूर्वान् सप्ता वरानात्मना सहपञ्चदशपुरुषान् दैवीसुतः पावयत् । दश पूवान् दशावराना त्मानचैकविंशतिकं ब्रह्मीपुत्रः पावयेदिति । अत्र भनुः - ‘दश पूर्वान् परान् वंशानात्मानचैकविंशतिम् । ब्राह्मीपुतः सुकृतकृत् मोचयेदेनसः पितृन् । दैवोढायास्सुतयैवं सप्तसप्तपरावरान् । आषोंढायास्सुतः त्रींस्त्रीन् षट्षट् कायोढजस्सुतः । ब्राह्मादिषु विवाहेषु चतुष्वानुपूर्वशः । ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसंमताः ।