पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः खण्डः मातुरसपिण्डां पितुरसमानऋषिगोत्रजातां लक्षणसम्पन्नां ननि कां कन्यां वरयित्वा पञ्चाहेषु कुलस्य परिशुद्धथै सपिण्डैः श्रोत्रियै स्सह भूतं भुञ्जीत ।। १ ।। एवं ब्राह्मदिविवाहानां लक्षणं तत्फलञ्च प्रतिपाद्य सेोमान्येनोक्तत्वात् सपिंडादिष्वपि विवाहः संभवेदित्याशंक्य तन्निषेधः क्रियते मातुरसपिण्डा मित्यादिना। मातुरसपिण्डामित्यनेन मातृवर्गे सपिण्डतामात्रम्। समानः पिण्डी देहो यस्यास्सा सपिण्ड तथा न भवतीत्यसपिण्डा। पुरुषस्य सपिण्डता षष्ठपुरुषावधिः कन्यायापुिरुषावधिर्भवतीति उतरन्न वक्ष्यते । पितृपितामहपपितामहानां मातृपितामहीप्रपितामहीनां पितृद्वारा पितृव्यादीनां मातृद्वारा मातृष्क्सृमातुला दीनामेकशरीरारंभकत्वेन साक्षात् परंपरया वा एते सपिण्डा शातव्यः । तिपितामहचैव तथैव प्रपितामह पिण्डसम्बन्धिनो खेते विज्ञेयाः पुरुषास्यः । लेपसम्बन्धिनश्चान्ये पितामहपितामहात् । प्रभृत्युक्तास्त्रयस्तेषां यजमानस्तु सप्तमः । इत्येवं मुनिभिः प्रोक्तः सम्बन्धस्साप्तपूरुषः ? ॥ इति आपस्तम्बः – 'लेपभाजश्चतुर्वाद्याः पित्राद्याः पिण्डभागिनः । पञ्चमस्सप्तमस्तेषां सापिष्यं सप्तपूरुषम्' । इति स्मृत्यन्तरे– ‘यस्माद्विशिष्यते वंशः पुरुषाद्वरकन्ययोः । तं समारभ्यगणयेन्मातृतः पितृतोऽपि च' ॥ इति कूटस्यव्यतिरिक्तस्तृतीय इति केचिद्वदन्ति । मातुलसुतानिषेधमरणात् । मातुलस्य सुतामूदा मातृगोत्रां तथैव च । समानमवराचैव त्यक्त्वा चान्द्रायणं चरेत् ? ॥ इति