पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्जयेत् । 'यस्यास्तु चरणौ हस्तौ जंधे चापि च रोमशैौ । उत्तरोठे च रोमाणि शीघ्र मारयते पतिम्' ।। आपस्तम्बः–‘दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां सांकरिकां रातां पालीं मित्रां स्नुजां वर्षकारीञ्च वर्जयेत् नक्षत्रनाम नदीनाम वृक्षनामाश्च() गर्हिताः। पर्वतनामा पिशाचनामा प्रेप्यनामाश्च गर्हिताः । सर्वाभरेफलकारोपान्ताः वरणे परिवर्जयेत्' इति। दत्तां वाचा दत्तां जलमदानपूर्व दत्तां वा-गुप्तां दैश्शील्यादिशंकया गुप्तां यद्वा कुष्ठादिरोगभयाद्गुप्तां द्योतामत्यन्ततेजस्विनीं-ऋषभां गृहे प्रधानां-यद्वा वृषभस्येव शरीरं गतिः शीलं वा यस्याः तां-शरभां शीर्णदीप्ति सर्वगात्रेषु नीललोमां वा-- विनतां विनतगात्रां पुरुषाधिकगात्राञ्च-विकटां विकटजंघां विस्तीर्णजंघां वा मुंडां अपनीतकेशां अमंजातकेशां वा-मण्डूषिकां मार्जारवक्कर्कटत्वचं (?) सांकरिकां अन्यस्मिन् कुले जातां अन्यापयतां गतां मातुर्गर्भदशायामेव पितुरखिसंचयनकारिणीं-रातां रमणशील सर्वदा कन्तुकादिक्रीडनपरां – पाल वत्सक्षेत्रादिपालिकां – मित्रां ब्रहुमित्रवतीं मित्रत्वं गतां वा-स्क्नुजां शोभना अनुना यस्यास्तां --प्रातृमती 'मित्युक्तत्वात्, वर्षकारी -चराधिकवयस्काम् स्मृत्यन्तरे – ‘कुष्ठादिरोगकुलजां कन्यां यत्नेन वर्जयेत् । वरमेवं परीक्ष्यैव कन्यादानं विशिष्यते ॥ अप्रजादिषु वंशेषु स्त्रीप्रजाप्रसवस्तथा । पतिष्यश्च स्वासिन्यस्तांश्ध यत्नेन वर्जयेत् ॥ इति ३४९ स्त्रीसंबन्धे दशैतानि कुलनि परिवर्जयेत् । हीनक्रियं निष्पुरुषं निच्छन्दोरोमशार्मसम्(?) । क्षयामयव्यपरमारिचित्रिकुछकुलानि च' ॥ इति