पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० श्री श्रीनिवासमलिकृत-तात्पर्धचिन्तामणिसहितम् [तृतीय प्रश्ने याज्ञवल्क्य.– “अप्रयच्छन्नवाप्नोति ब्रह्महत्यामृतावृतौ । गम्यं त्वभावे कुर्यात् स्वयंक्रम्' । इति दातष्मां कन्या गम्यं गमनार्हमित्यर्थः । नारदः-- 'यावच्चेलं न गृह्णाति यावत्क्रीडति पांसुभिः । यावद्दोषं न जानाति नाक्त् भवति नमिका ।। इति संवतं: – 'अष्टमे तु भवेौरी नवमे नमिका भवेत् । दशमे कन्यका प्रोक्ता द्वादशे वृक्ली स्मृता । विवाहयेदष्टवर्षा यो न धर्मेण हीयते । । इति स्सृत्यन्तरे – 'अष्टमे तु भवेौरी प्राप्ते रजसि रोहिणी । अव्यञ्जनकृता श्यामा कुचहीना तु नमिका ? ॥ इति अव्यञ्जनकृता – 'असञ्जानकक्षाद्विलोमा । प्रदान प्राग्रज:प्राप्तेरिति । बोधायनः – 'दद्याद्गुणवते कन्यां नमिकां ब्रह्मचारिणे । अपि वा गुणहीनाय नोफ्रुञ्ध्याद्रजस्वलाम् । अविद्यमानं सदृशे गुणहीनमपि श्रयेत् ' ॥ इति स्मृत्यन्तरे – 'अष्टवर्ष भवेद्वैौरी नक्वर्षा तु रोहिणी । दशवर्षा भवेत्कन्या अन ऊध्वं रजस्वला । ॥ इति वरयित्वा-गोत्रस्य श्रीमनारायणस्य कुमारस्य गोत्रजां लक्ष्मीनामधेयां धर्मप्रजार्थं वृणीमहे इति वरयित्वा । पञ्चाहे ति । नवधा विभक्तस्या अयुमभागेषु । कुलशुद्धयर्थ सर्पिटैः श्रोत्रियैस् : । भूतं-महाजमोदनं । सापूपव्यञ्जनम्। भंजीत इति । अयं सूत्रकाराभिप्रायः । यद्वा शोभनदिक्सेषु । यस्मात् स तो भवतीति विज्ञाषते ॥ २ ॥