पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय खण्डः ] अल्वलायनः–“अथ खल्वयं जनपदधर्माश्च प्रतियातीति । यस्मिन् ग्रामे वजनाना यभाचारं कुर्वन्ति तच कर्तव्यम्' । इति गुरुणाऽग्रिमुखे कृते कन्याप्रदो वरगोत्रनाम शर्मान्तं तथा तामस्य सहधर्मचारिणी भवतीति ब्राझे विवाहे धर्मप्रजासंपत्त्यर्थ यज्ञापच्यर्थ (यज्ञपत्न्यथै) ब्रह्मदेवर्षिपितृप्त्यर्थं प्रजासहत्वकर्मभ्यो ददामीत्युदकेन तां दद्यात् (दाति) ॥ ४ ॥ कन्याप्रदः इति । याज्ञवल्क्यः– 'पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्यामदः पूर्वनाशे प्रकृतिस्थः पर परः' । इति पित्राद्यभावे अन्ये वा मधुपर्क दत्वा। वरगोत्रनामशर्मान्तमित्यादि । 'त्य(उ )क्ता त्रिपुरुषं कन्यावरयोः पितृपितामहात्। गोत्रनाम यथापूर्वं ददेत्ौराणमन्त्रतः' । इति अत्राय मन्त्रः । 'कन्यां कनकसंपन्नां कनकाभरणेंयुताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया । । इति एवं प्रथममुक्ता श्रीनिवासशर्मणो नन्ने विष्णुशर्मणः पौत्राय गोविन्दशर्मणः पुत्राय कौशिकगोत्राय श्रीधरशर्मणे वराय-केशवशर्मणो नप्त्रं नारायणशर्मणः पौत्रीं माधवशर्मणः पुत्रीं काश्यपगोत्रां लक्ष्मीदा नाम कन्यां प्रजासहत्वकर्मभ्यः ब्रह्मतृप्त्यै ददामीति तत्तद्विवाहनाम्ना दद्यात् । तां 'प्रजापतिः स्त्रिया 'मित्युदकेनाहरते ॥ ५ ।। वर 'प्रजापतिख्यिा ' मित्युक्ता उदकेन सहाहरते-तिष्ठन् गृह्णीयात्। एवं त्रिः । असौ मे काम इत्यत्र कन्याया नमनिर्देशः । 'प्रजा मे काम' इति द्वितीयम् । 'पशवो मे काम 'इति तृतीयम् । पूर्वसूखे 'ब्राझे विवाहे' इत्यनेन भासुरपर्यन्ता गृह्यन्ते ।