पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ - श्री श्रीनिवासमन्निकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने वखगन्धामरणादीनि संभृत्य 'कनिक्रदादिना' कन्यागृहं सह बान्धवैर्गत्वा 'तेज आयुश्श्रिय 'मिति वस्रादिना अलंकृत्य 'प्रजापतेि स्सोम । मिति तथा आभरणमारोप्य आददीतेत्येके ॥ ६ ॥ वस्रगन्धाभरणादीनीत्यादि । चत्वारस्तोयमदानपूर्वका इति पूर्व मुक्तत्वात् आसुरादिषु मन्त्रकत्वेन कन्यादानादिकं नास्तीति शंकायां तद्या वृत्त्यर्थं पुनरपि 'कनिकदादिने ' युक्तम् । द्रव्यमूलत्वात् साक्षित्वेन सह बान्धवैरित्युक्तम् । वस्वगन्धाभरणादिकं सर्वत्र समानम् । आदिशब्देन पुष्पला जाक्षततांबूलादयो गृह्यन्ते । संभृत्य । स्त्रीभिर्वाहयित्वेति कैश्चिद्याख्यातम् । प्रतिग्रहानन्तरं 'तेज आयुश्श्रय' िमित वखादिना अलंकृत्य। प्रजापति स्सोममिति । तथा। पूर्ववत् । ब्रह्मादिष्वपि मांगल्यसूत्रज्ञापनार्थ तथाशब्दः। आददीतेन्यके इनि । एकशब्दः 'एके मुख्यान्यकंवला । इति मुख्यार्थः । मांगल्यतन्तुनानेन भर्तृजीवनहेतुना । कंटे बद्धन सुभगे त्व जीव शरदां शतम् ' ।। 'इति मांगव्यमृत्रश्च हिरण्यमणिस्युतम् । वृद्धानुमत्या तत्कंठे बद्धा मौञ्जीं त्यजेद्बुधः' । इति एक इति पक्षान्नग्त्वेन कैश्धिद्याम्यनम । पक्षान्नरत्वेन यदि व्याख्या यते नहिं पूर्वस्मिन् पक्षे बान्धवेस्मह मंगलद्रयैश्ध कन्यागृहप्रवेशः समन्त्रकत्वेन वासो धारण मांगल्यधारणश् न संभवति । इनरस्मिन् असुमन्तेत्यादिमन्त्राणां लोपः । अतः पक्षान्तरत्वेन न्याम्यात्मयुक्तम् । गृह्यः– ‘वधूवरौ मिथोऽन्योन्यं पूरिनाञ्जलिनण्डुलान्। प्रजापतिः स्वातिकेचित्कुत्रचित् शिरसोः क्षिपेत् '॥ इति इति श्रीमत्कोशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवामाख्ययज्वना विरचितं श्रीवैग्वानससूत्रव्याख्याने नात्पर्यन्तिामणौ तृतीयप्रक्षे द्वितीयः खण्डः ।