पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयः खण्डः ततः सहस्राताया वध्वा नववस्रालंकारायाः पुण्याहान्ते पाणेिं गृहीत्वा 'सुमंगलीरियं वधू' रित्यग्शिालामागत्य प्राइमुखमास यित्वा तस्यै शुद्धाम्बरवेषः कूर्च ददाति ॥ १ ॥ ततः प्रतिग्रहादिमांगल्यधारणानन्तरम् । स्राताया वध्वाः इत्यादि । मन्त्रोक्षणतः शानं विभूष्य खानदूषणात् । धृतोपवीतः पुण्याहं कर्मागञ्च समाचरेत् । इति शानस्य दूषितत्वात 'स्रानन्तु द्विविधं प्रेोक्त रुानमभ्युक्षणं तथा ' इति भृगुवचनाच मन्त्रानं कर्तव्यम् । अग्शिालामागत्य इत्यादि । अत्र विवाहशालाया लक्षणम् । गृह्यः – ‘विवाहकादौ शुभवेदिकाया प्रमाणमाहुः किल गर्गमुख्याः । द्विहस्तयुग्मां वसुरश्र(?)युक्तां हस्तोच्छूितां मन्दिरवामभागे॥इति किञ्च – ‘वितानध्वजोरणांकुरपूर्णकुंभादिभिरलंकृतांच कुर्यात् ।' इति तथा – ‘लोकेऽस्मिन् मंगलन्यष्टौ ब्राह्मणो गौर्डताशनः । हिरण्यं सर्पिरादित्यः आपो राजा तथाऽष्टमः । । एतानि सततं पश्यन्नमस्यन्नर्चयेच यः । प्रदक्षिणञ्च कुर्वीत तथाह्यायुर्न हीयते ? ॥ इति 'हरिद्रा लवणं धाना राजमाषस्तथा गुलम् । । जीरकं फलपुष्पञ्च मंगलाष्टकमुच्यते ॥ 'इक्षक्स्तृणराजञ्च निष्पाक्यवधान्यकम् । विकारवच गोक्षीरं कुसुम्भकुसुमं तथा । लवणञ्चाष्टमचैव सौभाग्याष्टकमुच्यते ।