पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखित-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने इत्याद्युक्तप्रकारेण सर्वमंगलद्धव्यसंयुक्ताममिशालमागत्येत्यर्थः । तस्यै त्रिवै। शुद्धांवरवेषः । शुद्धशब्दः चेतपरः धैौतपरो वा। वेषशब्दः अलंकारपरो वा । शुद्धवस्त्राभरणादिभिरलंकृत्येत्यर्थः । कूर्च ददाति । सवर्णया शरो धार्यः धार्यः क्षत्रियया शरः । प्रतोदो वैश्यया धार्यः वासोऽन्तं शूद्रया तथा ॥ इति अग्नेः पश्धिमतः । संस्कार्यः पुरुषो वाऽथ स्त्री वा दक्षिणतस्ततः । संस्कारकृतु सर्वत्र छेिदुतस्तस्सहि' । इति वचनात् . ‘दक्षिणतः पतिं भार्योपविशति । इति बोधायनक्चनात् उत्तरत्र वक्ष्यमाणत्वाञ्च दक्षिणे वधू समासयित्वा कूर्च ददाति । बोधायनः –“अपरेणाभिमुदीचीनप्रतिषेवणमेकामक्षिवणमास्तीर्य तस्यां प्राश्वमुप विशतः । उत्तरे पनिर्दक्षिणतः फत्री । अथान्वारब्धावा । मिति ॥ } ततः परिस्तीर्य अग्रैितु - 'इमामग्रिः-'इमामग्रिस्रायतां - 'मा ते गृहे–“द्यौस्तेपृष्ट-'अप्रजस्तां-'देवकृतं । इति पञ्चवारुणान्तं प्रधागान् जुहुयात् ।। २ ।। ततः अनन्तरं ‘ऊध्र्वपेषणमश्मानं लाजान् स्तोमाक्षतानपि । पुण्याहाघारसंभारान् विवाहार्थे सुसंभरेत्। इति गृह्योक्त विवाहसंभारानाह्वय अमेिं परिस्तीयेत्यार्थः ।। अग्नेरपरस्यामास्तीर्णेषु दर्भेषु अश्मानं 'आतिष्ठ ' ति बध्वा दक्षिणंपादांगुछेन दक्षिणेन स्पर्शयति ।। ३ ।। प्रत्यङ्मुख ' इति पाणिग्रहणं 'सरस्वती' ति विमर्ग 'अषेोर चक्षु'रित्यासन कृत्वा 'इमान् लाजा' नित्यमिषार्य 'दुर्ग नारी 'ि तस्या लाजांजलिना जुहोति ।। ४ ।।