पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीय खण्डः] ३५७ प्रत्यङ्मुख इति । प्राङ्मुख्या हस्तं प्रत्यखो गृहंयात् । एतत् पाणि ग्रहणमिति केचित् । बोधायनः । ‘प्रत्यझुखः प्रायुख्या वा, यदि कामयेत पुंसो जनयेय'मित्यंगुठं गृह्णीयात्। यदि कामयेत स्त्रीरित्यंगुलीः, यदि कामयेतो भयमित्यभीक्लोमानि सांगुष्ठमंगुलीः गृह्णीयात्' इति । सत्याषाढः । प्रामुखः प्रत्य मुख्या हस्तं गृहीयात्' इति । बोधायनः । अथास्य दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं सांगुष्ठ मभीवलोमानि गृह्याती'ति । सरस्वतितिष्टस्तं विसृज्य इमान् लाजनिति । वध्वञ्जलावभिघार्य जुहोति । बोधायनः । 'अस्याञ्जलावुपस्तृणाति । तस्या स्सोदयों द्वलजानावपति । तानादाय जुहोति ? इति । आश्वलायनः । तस्याञ्जलावुपस्तीर्य भ्राता भ्रातृस्थानीयोवा लाजाञ्जलीनावपती 'ति । द्विजमदम्यानाम् । प्रत्यभिधायै हविः, द्विरवत्तछेदविच्छिन्नवदञ्जलिं कुचेव जुहुयात्' इति च । अत्र आफ्तम्बकारिका

  • अंगुल्यप्रैर्न होतव्यं न हुत्वाऽञ्जलेिभेदनम् ।

वामभागे न होतव्यो लाजहोम इति स्मृतिः' । इति न हुत्वाञ्जलिभेदनमितीदमसमञ्जसम् । अञ्जलिमेदनाभावे कर्मान्तरयो भ्यताभावात् । इदमाफ्स्तंबविषयम्(?) । 'उदायुषेत्युत्तिष्ठति 'प्रत्यङ्मुख 'इति वधूमुखेक्षणं सरस्वतीति पाणिग्रहणं 'अघोरचक्षुरि' ति विसर्ग 'इमान् लाजा' निति लाजपूरणं 'इयं नारी' ति होमं 'उदायुपे' त्यग्रिप्रामं कुर्यादित्येके ।। ५ ।। स्वाभिमतं पक्षान्तरमाह 'उदायुपे' त्यादि । प्रत्यङ्मुख इत्यादि । वधूमुखेक्षणादिमन्त्रेषु तत्परत्वेन किञ्चिद्विशेषश्रवणात् पक्षान्तरमुक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने तृतीयः खण्डः ।