पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थः खण्ड 'विश्वा उतत्वया ' इत्यग्रि प्रदक्षिणं कृत्वा 'अतिगाहेमहि द्विष' इत्यासित्वा त्रिधैवं लाजहोमं जुहुयात् ।। १ ।। पुनरपि पाणिं गृहीत्वाऽग्रतो गच्छेत् । 'क्श्विा उतत्क्या क्य मियमेिं प्रदक्षिणं कारयित्वा 'अतिगाहेमहि द्वष' इत्यासित्वा पुनरप्यातिष्ठत्यादि सर्वमेव त्रिवारं कुर्यात् । अत्र आफ्तम्बादयः एवं कुर्वन्ति । 'दक्षिणां दिशमाश्रित्य यमो .... वञ्च धावति । दम्पत्यो रक्षणार्थाय ब्रह्माप्येको बहिर्भवेत्' । इति इदमाफ्स्तंबविषयम् । ‘सोमायेत्याहुतेः पूर्वं सब्रह्माझेः प्रदक्षिण'मिति विधिनिषेधयोर्विद्यमानत्वात् । विधवं लाजहोमं जुहुयात् । अतो मृलहोमान्ते अग्रि पनिघ्यन्तं वायुं निन्दितान्तमादित्यं घोरान्नं गन्धर्व यशोऽन्यन्तं चन्द्रं पुत्रघ्न्यन्तं हुत्वा व्याहृतीः ॥ २ ॥ अतः इति । लाजहोमान्तं मूलहोमः । अत्र 'सोमः प्रथमो विविदे इत्यादि मन्त्रलिंगात् 'ऋतुकाले तु संप्राप्त' इत्यादि स्मृतेश्व ‘भगो अर्यमा सविता पुरन्भ्रिर्महं वाऽदुर्गार्हपयाय देवाः ? इत्युक्तार्हस्थ्यधर्मायेत्यर्थः । अतः धर्माचरणार्थे पञ्चप्रायश्चितं ज्ञापयितुमतश्शब्दः प्रयुक्तः । प्रासावीरित्यन्तैश्चतुर्भिः प्रवाहणं कृत्वा पुनः परिस्तीर्य स्विष्टकृन्मिन्दाहुतीर्विच्छिन्नमृद्धिं सप्तसमिव्याहृतीथ जुहुयात् ।। ३ ।। प्रासावीरित्यन्तैरित्यादि । अयमेव प्रवेशद्दोमः । इदं कर्म साद्गुण्यार्थम् । अमेरपरस्यामास्तीर्योदगग्रान् सप्त बर्हिः वध्वा सह दषिणेन पादेन 'एकमिचे विष्णु'रिति ‘डू ऊर्जे 'इति ‘त्रीणि ऋताव' ति