पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्पः क्षण्ड:] श्रीवैखानसगृह्यसूत्रम् ३५९ 'चत्वारः इति 'पञ्च पशुभ्यः' इति “पङ्कायस्पोषाय इति “सप्त सप्तभ्य इति तान् पर्यायेणाऽऽक्रम्य गत्वा 'सखा' इतेि निवर्तेत ।। ४ 'मम हृदय 'मिति तस्या हृदयमभिस्पृशति ।। ५ ।। अग्रेरपरस्यामित्यादि । अत्र दर्भास्तरणं ‘तासां यन्मेध्यं यज्ञियं सदेवमासी 'दिति श्रुतेः देवतातिक्रमशपथमित्यवगम्यते । प्रोक्षणैः प्रोक्ष्य पुण्याहस्वस्तिघोपेण ‘अरुन्धती- इन्द्राणी अदितिः - श्रीरिव' इति वध्वाः 'मनुः प्रजापतिः - पुरुषोत्तम महेन्द्र इवेति । वरस्य च चत्वारि स्तोमान्यारोपयेयुः ।। ६ ।। इति पाणिग्रहणम् ।। ७ ।। प्रोक्षणैः - आपोहिष्ठादिभिः । पुण्याहस्वतिघोपेण पुण्याहोक्तस्वति घोषेण सह । कैश्विदेवं व्याख्यातम् । पुण्याहमिति पृथुतेनोक्तत्वात् पुण्याहा नन्तरं स्वतिसूक्तन सह उतैर्मन्त्रैः स्तोमान्यारोपयेयुरिति । 'इति पाणिग्रहण मित्युक्तत्वात् ततः प्रभृतिगर्हिस्थ्यं धर्ममनुतिष्ठतीत्युक्तत्वाच । स्तोमद्रव्याण्याह भृगुः दूर्वाग्रं लक्ष्मिपुष्पञ्च देवमूर्धनि चार्पयेत् । सानन्दादि ततो जप्त्वा स्तोमान्यारोपयेद्बुधः' । इति स्तोमारोपणेन पाणिग्रहणसिद्धिः । नारदीये रुक्मांगदचरित्रे । विना तोयैर्विना दर्भर्विना वा पावकेन च । ब्राह्मणस्य विना वाक्यैर्विवाहो निष्फलो भवेत् । । इति आरोपयेयुरित्युक्तया अरुन्धतीत्यादिमन्त्रैः स्तोमद्रव्यैः शिरस्यारोपण माशीर्वादः इति सिद्धयति । धुवदर्शनान्तमित्येके ।। ८ ।। पाणिग्रहणं धुक्दर्शनान्तमिति केचित् । यद्वा मुख्य एवार्थः । भुक्दर्शनशब्देन आग्नेयस्थालीपाकग्रहणम् ।