पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमः खण्डः 'अथ चतुर्वीवासः ॥ १ ॥ अथ स्तोमारोपणानन्तरं । चतुर्थीहोमः । विवाहाद्याचरणीयं त्रिरात्रं चतुर्थीत्युच्यते । यद्वा अन्तहोमानन्तरं व्रतार्थ नियमेनैवात्र वासः चतुर्थीवासः । वैवाहिक मिं वध्वा सहाऽऽदाय 'संप्रवाहारय 'न्त्विनि वर्धे ‘समं वध्वा'इत्यमिं 'संशास्मि दक्षिणं पादमग्रेऽतिहर देहलीं माधिष्ठा' इत्यावसथे प्रविश्य प्राच्यामधे समादधीत ।। २ ।। वैवाहिकेत्यादि । विवाहोमामेिं भाण्डे अरण्यादौ वा समारोप्यादाय शिबिकादिवाहनेप्वारूढौ वधूवरौ बन्धुभिर्मगलवाद्यादिभिश्च सह स्वगृहं गच्छेयुः । दूरश्चेदत्रैव वसेयुः । 'वधूगृहं समीपछेत् तदैव स्वगृहं व्रजेत् । दूरचेत्कन्यकागेहे चतुर्थीवासमाचरेत् । दूरं वा स्वगृहं गत्वा तदादि व्रतमाचरेत्। रात्रौ चेदपि वाऽऽविश्य गृहान् मन्त्रेण तत्र वै । स्थालीपाकादिकं कृत्वा अन्तहोमं समाचरेत् ' । इति रात्रै विवाहश्चेत् गृह्यपििशष्ट विशेष उक्तः । यथा – रात्रेभिागं संकल्प्य चतुथ्र्यास्तु तथा तदा । स्थालीपाकव्रतारंभः तृतीये चेत्परेऽहनि ।। सायेत्यौपासनारंभः पूर्वभागे दिवैव वा । स्थालीपाकादिकं कुर्याद्रात्रौ मुख्यतरं भवेत् । सायं प्रातश्च षण्णाडो होमकाल उदाहृतः' । इति 1. अथ स्तोमारोपणानन्तरम् । यस्मिन् चमंणि दंपती आसीनौ शयानौ च त्रिरात्रं व्रतं चरतः तच्चर्म चतुर्थी, तत्र वासः चतुर्थीवासः । उच्यत इति शेषः । इति ग्रन्थाक्षरकोशटिप्पण्याम् वाजपेयिभाष्यम् । 46