पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् व्रतपूर्यर्थमानडुहं चर्मेत्युक्तम् । आनडुहाभावे कृष्णाजिनम् । ‘ब्रह्मणो वा एतदूपम् । यत्कृष्णाजिन' मिति श्रुतिः । वाशब्दात् कटादि । गृह्यः - 'दीपाद्यलंकृते गेहे व्रीहीनास्तीर्य तत्र वै । चर्माभावे कटं वापि तदूध्वें वस्रमास्तरेत्' । इति पञ्चमः खण्डः ३६ तत्र प्राङ्मुखमुदङ्मुखं या वधूमुप्रवेश्य पतेिः 'इह गावः प्रजायध्व । मिति पश्चान्निीदत ।। ४ ।। तत्र-चर्मणि । निषीदेत 'उपविशेत् । आज्योतिषां दर्शनात् वाचंयधावन्यतरानुपेतावासाताम् ॥ ५॥ आज्योतिपा मित्यादि । नक्षत्रदर्शनपर्यन्तं । वाचंयमौ मौनिनौ । अन्यतरानुपेतैौ अन्येनायुतौ पुरुषान्तरेण स्त्रिया वा । . आसाताम् । आसननिर्देशात् स्वापादिकर्मान्तरनिवृतिः । उदिते नक्षवे प्राचीमुदीचीं वा 'देवीघ्षडुर्वी' रिति दिशमुपस्थाय 'ाहासहि प्रजया'इति चन्द्रं 'सप्तर्षय ' इति सप्तर्षीन् कृत्तिकादि नक्षत्राण्यरुन्धतीश्च ‘ध्रुवक्षिति' रिति ध्रुवश्च दृष्ट्रपतिष्ठयाताम् ॥ ६ उदित इत्यादि । वाशब्दः विकल्पार्थः । वधूवरयोः प्रत्येकमुपस्थानम् सर्वकामसगृद्धयथै दिगुपस्थानादिकम्। द्विजराजत्वात् चन्द्रोपस्थानम् । नक्षत्रादिदर्शनाभावे गृह्यः- 'अदृष्टाप्याह नक्षतं द्रष्टाऽहमिति तत्पतिः । तेषामदृष्टकालेऽपि मन्त्राणां जप इप्यते । ॥ इति कात्यायनश्च– 'सा यदि न पश्येत् 'पश्यामी' ति ब्रूयात्' । इति कृत्तिकादीति । 'यदिष्टादिस्तथा कालः ब्रह्मणा परिनिर्मितः । रोहिण्यादं भवेत् सर्वमेवं संख्यासमो भवेत् ।