पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न एवमुक्तः तु शक्रेण त्रिदिवं कृतिका गता । नक्षत्रं शकटाकारं भाति तद्धयमिदैवतम्' ॥ इत्यारण्यपर्वण्युक्तत्वात् कृत्तिकादित्वेन कथमुच्यत इति चेत्-सत्यम्। 'कृतिकाः प्रथमम् । विशाखे उत्तमम् । तानि देवनक्षत्राणि । अनूराधाः प्रथमम्। अपभरणी रुतमम् । तानि यमनक्षत्राणि 'इत्यारभ्य ‘तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते ' इति दे वनक्षत्राणामादिभूतत्वात् अग्देिवत्यत्वात् 'मुखं वा एतन्नक्षत्राणाम् यत्कृतिकाः' इति श्रुतेश्च कृत्तिकादीनीत्युक्तम् । पातिक्रत्य सिद्धयर्थ अरुन्धतीदर्शनम् । स्थैर्यादिसिद्धार्थ ध्रुवदर्शनम् । मनोझं तया सह संभाप्य ।। ७ ।। मनोज्ञमित्यादि । ध्रुवोपस्थानानन्तरं यथायोगं मनःप्रियं तया संभाप्य । अथाऽऽग्नेयः स्थालीपाकः ।। ८ । अथ दिगुपस्थानादि सन्ध्योपस्थानानन्तरं आग्नेयस्थालंपाकः । 'प्रजास्थाली 'मिति स्थालीमभिमृश्य 'अग्नये जुष्टं निर्वपामी'नि स्थान्यां नण्डुलान् निर्वाप्य 'वाचम्पतये पवम्वे 'ति बध्वा चरुं श्रपयनि ।। ९ ।। अधिार्योदगद्वास्य परिस्तीर्य अग्रमुपसमाधाय 'हन्यवाहमिनि स्विष्टकृता यजेत् ।। १० ।। अग्रिमुपसमाधा.त्यादि । जुहू ठुवञ्च द: संमृज्य प्रेक्ष्य सकृ दुस्तीर्य द्विरवदाय सकृदनिघाथै * हव्यवाह ' मिति स्विष्टकृत्संज्ञितेन मन्त्रेण यजेत । यजनविधानात् 'हव्यवाह'मिति पुरोनुवाक्यामनृच्य 'स्विष्टमम ' इति याज्या जुहोतीति केचित् । कृस्राधारान्तमिति केचित् । यद्वा पर्वणि स्थालीपाकवत् सर्वं कर्तव्यम् । ‘अथाग्नेय' इत्र प्रेशव्दनिर्देशात् 'अग्ये जुष्टं निर्वपामी ? युक्तत्वाच 'अमिधे'ति पुरोनुवा. यामनूच्य 'भुवो यज्ञस्ये' ति याज्यया यजेत-यजनविधानात् । 'पुरस्तालक्ष्मा पुरोऽनुवाक्या उपरिष्टालक्ष्मा याज्या ' इत्युक्तत्वात् । सामान्येन' “हव्यवाह' मिति स्विष्टकृता यजेते'