पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्ड ] ' अक्रूरमन्नमश्नाति वनवासरतस्सदा । कुरुतऽहरहः श्राद्ध मुनिब्राह्मण उच्यत । षट्कर्मनिरतो नित्यं देवतातिथिपूजकः । स्वाध्यायनिरतस्साधुस्स विो द्विज उच्यते ॥ धनुर्वेदविशेषज्ञो राजसेवापरश्च यः । त्रिकर्मकृन्महोत्साहो विप्रः क्षत्रिय उच्यते । ३६७ त्युक्तत्वात् हच्यवाहशब्दस्य मन्त्रान्ते विद्यमानत्वात् पाकयज्ञत्वात् कृत्साधारविधौ अमिमुद्दिश्य नेिरुसे हविषि व्याहृतिहोमादिपकहोमासंभवात् चरुद्धयासंभवात् चरुद्धय प्रतिपादनाभावाश्च पर्वणि स्थालीपाकक्त् कर्तव्यमित्यवगम्यते । तदानीमेव स्थालीपाकश्चेत् आघारं विना सूत्रोक्तमार्गेण कृत्वा अन्तहोमः । अन्यदा 'अधेि ' ति पुरोऽनुवाक्यामनूच्य 'भुवो यज्ञ' स्येति याज्या हुत्वा स्विष्टकृते अवदाय 'हव्यवाह'मिति पुरोऽनुवाक्यामनूच्य ‘स्विष्टमझ ' इति या ज्या जुहुयात् । ननु–‘यदेकया जुहुयात् दविहोमं कुर्या' िदति श्रुते स्मार्तस्य दर्वीहोमत्वादाहुतिद्वयं न संभवतीति चेत्-सत्यम् । पितृदेवता व्यतिरिक्ताम्यादीनां पृथक्तन यत्र निर्वापः क्रियते तत्र स्विष्टकृदपि कर्तव्यम् इति आग्नेयस्थालीपाकं आग्रयणे चोक्तत्वात् । यत्र कुत्रचिदाज्येन वा संभवति। अत एाहुतिद्वयं सिद्धम् । . हुतशेषेण श्रोत्रियं ब्राह्मणं तर्पयित्वा तसा ऋषभं दत्वा अनृणो भवतीति विज्ञायते ।। ११ ।। हुतशेषेणेत्यादि । देवो मुनिद्विजो राजा वैश्यः शूद्रो बिडालकः । पशुम्लेच्छश्च चण्डालो दश विप्राः प्रकीर्तिताः ।। शिक्षाशी ध्याननिरतः सन्तुष्टस्संयतेन्द्रियः । वेदशास्रार्थतत्त्वज्ञो देवब्राह्मण उच्यते ।