पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः] श्रीवैखानसगृह्यसूत्रम् अत्र कात्यायनः–“वैवार्षिकाधिकान्नो यस्सहि सोमं पिबेद्विजः । प्राक् सौमिकी क्रियास्सर्वा यस्यान्न वार्षिकं भवेत्' । इि मनुः -- ‘अतः स्वल्पीयसेि द्रव्ये यस्सोमं पिबति द्वजः । सपीतसोमपूर्वोऽपि न तस्य फलमाभ्भवेत्' ॥ इति बहुद्रव्यवः सोमाधिकारस्मरणात् आढयस्य ऋणापाकृतिरितरस्य न संभवतीति शंकायां, तद्यावृत्यर्थ औपासनेनाप संभवति अनड़ाह(4) दानेन सह स्थालीपाकेनेति ज्ञापयितुमनृणो भवतीत्युक्तम् । अििसद्धिरेत्यर्थो विज्ञायते । न दुर्बझणो भवतीत्यादिषु औपासनं वा धारयमाण इत्युक्तत्वात् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरिचते श्रीवैखानससूत्रव्याख्याने तत्पर्यक्तिामणौ तृतीयप्रश्ने पञ्चमः खण्डः । ३६९