पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पgः खण्डः अत ऊध्र्व पर्वणि पर्वणि स्थालीपाकेन यजेत ॥ १ ॥ नित्यं यवैः व्रीहिभिर्वा हस्तेन 'सूर्याय स्वाहा ' 'प्रजापतये स्वाहा । इनि प्रातरहुती 'अग्नये स्वाहा - प्रजापतये स्वाहा' इति सायमाहुती जुहुयात् ।। २ ।। यवैरित्यादि । वाशब्दो विकल्पार्थः । अन्निहोत्रहविषा वा । यद्वा अत ऊध्र्व नित्योपासनानन्तरं पर्वणि स्थालीपाकेन यजेत । यावजीवं पर्वद्वयेऽपि कर्तव्यताज्ञापनार्थ द्विरुक्तिः । आग्नेयस्थालीपाकनित्यौपासनयोरेक त्वमंगीकृत्य औपासनादृर्व पर्वणि स्थालीपाक इति ज्ञापयितुमत ऊर्वमित्युक्तम् । सर्वमन्या स्थालीपाकप्रकरणे द्रष्टयम् । किञ्च । 'यथा वै पुरुषोऽश्वा गोजयत्येवमग्रािहितो जीर्यति संवत्सरस्य परस्तादात्रिं पावमानीभिरुपतिष्ठने पुनर्नवमेवैनमजरं करोति इति । अतः पर्वणि पर्वणीत्युक्तम् । श्रुत्यन्तरे ! यम्यामिहोत्रमदर्शपूर्णमासमनाग्रयणमतिथिवर्जितश्च अहुतमवैश्वदेवमश्रद्धया अविधिना हुनमासप्तमांस्तस्य लोकान् हिनस्ति'इति । दशकालाद्यपक्षया स्थालापाकव्यवस्थामाह गृह्य । रात्रिं द्विभाग संकल्पेन् चतुर्थस्तु तदादितः । स्थालीपाकत्रतारंभः तृतीयश्चत्परेऽहनि ।। साये रौपासनारंभः पृर्वभागे दिवैव वा । स्थालीपाकादिकं कुर्यात् रात्रौ मुख्यनरं भवेत् । रात्रिं त्रिभागं कुर्यातु द्वौ भागौ पूर्ववासरे । शेषं परदिने चैव स्थालीपाकमृते मृतौ । उदयादुदयं यावद्दिनमित्यभिधीयते । तद्दिनादितमाशौचमिति () वेदविदो विदुः' । इति