पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् ३७३ हस्तादूर्धवं रविर्यावत् भूमिं हित्वा स गच्छति । एष होमविधिः (अवधिः) पुण्यो नान्थोऽभ्युदितहोमिनाम्। रात्रेः षोडशभागे तु ग्रहनक्षत्रदूषिते । काले त्वनुदिते प्रातः होमं कुर्याद्विचक्षणः । तदा प्रभातसमये नष्ट नक्षत्रमण्डले । रविर्यावन्न दृश्येत समयाध्युषितः स्मृतः' । इति कात्यायनः – 'सूर्येऽस्तशैलं संप्राप्त षत्रिंशद्भिरिहांगुलैः । प्रादुष्करणमीनां प्रातर्भासामदर्शने ।। यावत्सम्यग्विभासन्ते नभस्यस्क्षाणि सर्वतः । लोहितत्वञ्च नापैति तावत्सायन्तु हूयते । । आपस्तंबः --- * तस्यैतस्य ह्यगाधे तीथे(?) यत्संधिस्तस्मात्संधौ होतव्यमिति शैलालेि ब्राह्मणं भवति ! ॥ इति औते च –‘सायं प्रातस्संध्ययोहॉतव्यम् । नक्षत्रं दृष्टा प्रदोषे निशायां वोषसि पुरोदयात् समाविषित उदिते वा प्रदोषान्तो होमकालः सायम् । संगवान्तः प्रातः इति । ‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुद्दति योऽमिहोत्र। ' मित्यादिश्रुतयः 'नहि निन्दा निन्दितुं प्रवृत्ता अतुि नििन्दतादन्यत्प्रशंसितुमिति नहिन्दिान्यायेन अनुदितहोमप्रशंसापरा: व्याख्येयाः । वैशंपायनः– 'एकेऽभ्युदितहोमास्युः अन्येऽनुदितहोमिनः। अन्ये भोजनहोमास्युः पक्षहोमास्तथैव च । सन्ध्याकालावसाने तु स्वयंहोमो विधीयते । स्वयंहोमे फलं यत्स्यात् न तदन्येन लम्यते ? ॥ इति मनुः- 'महक्षयुक्तोऽनुदितो नक्षत्रार्कविवर्जितः । एतैरपि हुतं यत्यात् तद्धुतं स्वयमेव हि ' ॥ इति