पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामिणसिहतम् [तृतीय प्रश्न । वशित्राह्मणेः– ‘अन्यैशतहुताद्धेोमात् एकशिष्यकृतो वरः । शिष्यैश्शतहुताद्धोमात् एकः पुत्रकृतो वरः । पुत्रैश्शतहुताद्धोमात् एको ह्यात्महुतो वरः । समयाविषितस्साक्षादुदितस्त्रिषु होमयेत्' । इति स्कान् – ‘तुलसीकाष्ठयुतेऽौ जुहुयादक्षयं फलम् । हविस्तेनैव यत्पकं विष्णोरानन्त्यमश्नुते ' । इति हस्तेन ओषध्यः सक्तवः पुष्पं तृणं काष्ठ फलं तथा । एनद्धस्तेन होनव्यं नान्यत्किञ्चन चोदनात्' । इति गृह्यः– 'उत्तानेन तु हस्तेन अंगुष्ठन निपीडितम् । संयतांगुलिपाणिस्तु वाग्यतो जुहुयाद्धविः' । इति सूर्याय प्रजापतय इत्यादि । श्रुतिः-'सोऽजामसृजत 'इत्यारभ्य 'किं भागधेयमभिजनिष्य इति तुभ्यमेवेद इयाना इत्यब्रवीत् । स एतद्भागधेयमभ्यजायत । यदमिहोत्रम् । तस्मादमिहोत्रमुच्यते । तदूयमानमादित्योऽब्रवीत् । माहौषीः । उभयोर्वे नावेतदिति। सोऽमिरब्रवीत् । कथं नैौ होप्यन्तीति । सायवेव तुभ्यं जुहवन्। प्रातर्मह्यमित्यब्रवीत् । तस्मादमये सायं हूयते । सूर्याय प्रात' रिति । तथा 'प्रजापतिरकामयत प्रजायेति । स एतदमिहोत्रं मिथुनमपश्यत् । तदुदिते सूर्येऽजुहोत् । यजुषाऽन्यत् । तूष्णीमन्यत् । ततो वै स प्राजायत । इत्यादि । किञ्च । 'उत्तरावतीं वै देवा आहुतिमजुहुवुः । अवाचीमसुराः । ततो देवा अभवन् । पराऽसुराः । यं कामयेत वसीयान् स्यादिति । कनीयस्तस्य पूर्व हुत्वा उत्तरं भूयो जुहुयात् । एषा वा उत्तरावत्याहुतिः । तां देवा अजुहुवुः । ततस्तेऽभवन् । यस्यैचं जुह्वति । भवत्येव । यं कामयेत पापीयान् स्यादिति । भूयतस्य पूर्व ' हुत्वा । उत्तरं कनीयो जुहुयात् । एषा वा अवाच्याहुतिः । तमसुरा अजुहुवुः । ततस्ते पराभवन् । यस्यैवं जुह्वति। परैव भवति । इति ।