पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'अ बोधायनः- (अथ हैव भवति आपो वा इदमग्रे सलिलमासीत् । तस्मिन् प्रजापतिर्वायुर्भूत्वाऽचरत् । स इमामपश्यत्। तां वराहो भूत्वाऽहरत् । तां क्श्वि कर्मा भूत्वा व्यमाद् साऽप्रथत । सा पृथिव्यभवत् । तत्कृथिव्यै पृथिवीत्क्म् । तस्यामश्राम्यत् इति) । तदुहेक औपासनमेवोपासते । स्त्रिया एव संस्कारार्थ औपासनो िनत्यो धार्यः, अनुगतो मन्थ्यश्श्रोत्रियागाराद्वाऽऽहार्यो.......द्वादशाहं विच्छिन्नः पुनराधेय ! इति । अतः पत्नी कृच्छू चरतीत्युक्तम् । कृच्छूमिति सामान्येनोक्तत्वात् प्राजापत्यम् । भृगुः-'कृच्छूमित्यविशेषोते प्राजापत्यं विधीयते इति । प्राजापत्यादीनां लक्षणश्चोक्तम् । 'एकभुक्तन नक्तन तथैवायाचितेन च । उपवासेन चैकेन पदकृच्छः प्रकीर्तितः । यथाकथञ्चितिगुणं प्राजापत्योऽयमुच्यते । प्राजापत्यो भवेत्कृच्छ्रो दिवारात्रमयाचितम् ॥ क्रमशो वायुभक्षश्ध द्वादशाहं व्यहं त्र्यहम् । अहरेकं तथा नक्तमज्ञातं वायुभक्षता । त्रिवृदेष परावृतो भावानां कृच्छू उच्यते । एकैकं ग्रासमश्नीयात् पूर्वोक्तन यहं त्र्यहम् । वायुभक्षस्त्र्यहं चान्यदतिकृच्छूोऽघनाशनः । अब्भक्षत्रियहानेतान् वायुभक्षस्ततः परम् । एष कृच्छूतिकृच्छूस्तु विज्ञेयस्सोऽतिपावन ॥ तप्तक्षीरघृतांबूनामेकैकं प्रत्यहं पिबेत् । एकाहमुपवासेन तप्तकृच्छूः प्रकीर्तितः' । इति प्राजापत्यादि चतुर्वेिशतिमते । ---.• • • - - - • • • • - - - 1. चतुर्थ सूत्रं मातृकायां नोपलभ्यते । औचित्यादत्र निवेशितम् । बोधायन दापये पूर्वखण्डोदाहरणं प्रकृतानुपयुक्तमिव भाति ।