पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्डः] नियतात्मा हविप्यञ्च यतिश्चान्द्रायणं चरेत् । चतुरः प्रातरश्नीयापिंडान् विप्रस्समाहितः ॥ चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं चरेत्। यथाकथञ्चित् पिंडानां तिस्रोऽशीतिस्समाहितः ॥ मासेनश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् । त्रींस्त्रीन् पिंडान्समश्नीयात् नियतात्मा दृढव्रतः ॥ हविष्याझे स वै मासमृषिचान्द्रायणं स्मृतम्' ॥ 'प्राजापत्यक्रियाशक्तौ घेर्नु दद्यात् सदक्षिणाम् । धेनोरभावे निष्कं स्यात् तदर्ध पादमेव वा । पादहीन न कर्तव्यमिति शातातपोऽब्रवीत्' । इति 'कृठ्ठोऽयुतच गायञ्याः उपवासस्तथैव च । धेनुमदानं विप्राय सममेतचतुष्टयम् ' ॥ इति चतुविशतिमते - 'तिलहोमसहस्रश्च वेदपारायणं तथा ॥ इति पराशरः- ‘कृच्छ्रो देव्ययुतचैव प्राणायामशतद्वयम् । पुण्यतीर्थेनाशिरस्ानं द्वादशसंख्यया ॥ द्वियोजनं तीर्थयात्रा कृच्छूमेवं प्रकल्पितम्' । इति

  • पाजापत्यं चरन् विप्रेो यद्यशक्तो दिने दिने ।

विप्रान् पछावरान् शुद्धान् भोजयेत्सम्यगर्चितान्' ॥ चान्द्रायणत्रयं कृच्छूस्सावित्र्याश्वायुतद्वयम् । समुद्रगनदीक्षानं सममेतचतुष्टयम् । । इति चतुविशतिथते – ‘प्राजापत्ये तु गतं दद्यात् दद्यात् सान्तपने द्वयम् । फ्राकतप्तकृच्छूषु तिस्रतिसश्च गाः स्मृताः ॥