पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्डः] कात्यायनः– “ पितृयज्ञात्ययेनैव वैश्वदेवात्ययेऽपि च । अनिष्टा नक्यज्ञेन नवान्नप्राशनेन च ॥ भोजने पतितान्नस्य चरुंदैश्वानरो भवेत् । । इति प्रजापतिः – 'दर्शञ्च पूर्णमासश्च लुप्वा चोभयमेव च । एकस्मिन् कृच्छूपादेन द्वयोरर्थेन शोधनम् ॥ हविर्यज्ञेष्वशक्तस्य लुप्तमप्येकमादितः । प्राजापत्येन शुद्ययेत पाकसंस्थासु चैव हि ॥ सन्ध्योपासनहीने च नित्यशानं विलोप्य च । होमध नैन्यकं शुद्ययेत् गायत्र्यष्टसहस्रतः । वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्रातकऋतलोपे च प्रायश्चित्तमभोजनम्' । इति भारद्वाजेन लघुप्रायश्चित्तमुक्तम् । 'आविंशतिरात्रादेकोपवासः आत्रिंश द्रात्रात् .. अत ऊध्र्वमाषष्टिरात्रात् तिस्रो रात्रीरुपवसेत्। अत ऊध्र्वं संवत्सरात् प्राजापत्यमत ऊध्वं कालबहुत्वे दोषबहुत्वमिति । किञ्च – 'अतीतकालं जुहुयादौ विप्रायचाव्ययम्(?) । नष्टऽयौ विधिवदुत्वा कृत्वाऽऽधान पुनद्वजः' ।। अमौ नष्ट त्रयः कृच्छूः कर्तव्या वत्सरं प्रति । स्वाध्यायजपशीलानां कृच्छमेकं विधीयते । । इति अमिहोत्र्यपविद्धानिः ब्राह्मणः कामकारतैः । चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत्' । इति धुतिरपि – 'उनैकाहमुत दहं न जुडति । हुतमेवास्य भवति । इति । अतो द्वाद्रशाहं विच्छिन्नः पुनराधेयः इति । त्रिभिर्हते स्वामुपैति वहिर्न तत्र होमं जुहुयाचतुर्थम् । 'बोधसोधीति समिद्वयेन हुत्वन्तहोमो विधिवद्विधेयः' । इति