पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०७ प्रवासादिनिमित्तेषु पक्षहोममाह-वियोगे पक्षस्येत्यादिना। सूतके मृतके चैव अशक्तौ श्राद्धभेजने । प्रवासादिनिमित्तेषु हावयेन्नतु हापयेत् । ।॥ इति वचनात् । गृह्यः - ‘प्रवस्यन् संग्रहचैव समारोप्याथवाऽथ तैः । गच्छेत् सहाििभः पल्यमन्निधौ होमदूषणात्' । इति कात्यायनः - 'अममक्षन्तु दम्पत्योः होतव्यं नविगादिना । द्वयोरप्यसमक्षन्तु भवेदुनमनर्थकम् । निक्षिप्यार्मेि स्वदारेषु परिकल्प्य द्विज तथा । प्रवसेत्कार्यवान् विप्रो वृथैव न चिरं वसेत्' । इति स्मृत्यन्तरे 'प्रवासे चामिहोत्री य: द्विपञ्चाहांश्च सप्त वा । दानव्यो होमः एकाहे सायं प्रातः पृथक् पृथक्' । इति 'शारीीगपद्भवेद्यत्र द्विपञ्चाहाश्ध सप्त वा । दानव्यो होम एकाहे सायं प्रातः पृथक् पृथकृ ।। कालातीनानि सर्वत्र उत्तरेषु हुतेषु च । कालानीतानि हुत्वैव उत्तराणि समापयेत्' । इति पक्षहोम करिष्ये इति संकल्प्य 'अदितेऽनुमन्यस्व ' इत्यादि परिषेच नान्ने यावन्पक्षान्न तावद्रणयित्वा तावत्सायं प्रातराहुतीः पृथक् जुहुयात् इति केचित् । श्रौतन्यायेन सायमाहुतीस्सर्वा एकदैव हुत्वा प्रातराहुतीस्तथा हुत्वा परिषेचनादिकं कुर्यात् । एवं गृहस्थस्यौपामनहोमे पक्षहोमः कर्तव्य इति शापयितुं वियोगे पक्षस्येत्युक्तम् । मरीचिः - 'पक्षहोमानथो हुत्वा मध्येऽकस्मन्निवर्तितः । होमं पुनः प्रकुर्यातु न चासौ दोषभाग्भवेत्' । इति पक्षहोमं कृत्वा धार्यं कर्तुमशक्तः प्रवत्स्यन्वा उपावरोहेति समिषं यावत्कृष्णं तप्त्वा ममारोप्य गच्छेत् । यद्वा समारोप्य गच्छन् तथा