पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० भी श्रीनिवासमखिकृत-तात्पर्मचिन्तामणिसहितम् [तृतीय प्रश्न एकपकेन वसतां पितृदेवद्विजार्चनम् । एकं भवेद्विभक्तानां तथैव स्यात् गृहे गृहे । यस्मिन्नेव पचेदन्न तस्मिन्नेव परे विदुः । इतीदं वचनमनमिकविषयम् । ‘पञ्चसूनादोषापनोदनद्वारा श्रीमन्नारायणमीत्यर्थ वैश्वदेवेन यक्ष्ये ' इति संकल्प्य, ‘विद्युदसि–सत्यमुपैमि । इत्यन्तसंकल्प शापनार्थ वैश्वदेवमित्युक्तम्(?) । 'यथाह ' इति मण्डलं प्रदक्षिणमुपलिप्य परिमृज्य परिषिच्य अये स्वाहा - सोमाय स्वाहा । इत्युत्तरदैक्षिणयोः मध्ये व्याइतीः

  • विशेभ्यो देवेभ्यः स्वाद्दा- धन्वन्तरये स्वाहा - कुडै स्वाहा- अनु

मत्यै स्वाहा-प्रजापतये स्वाहा – द्यावापृथिवीभ्यास्वाहा। व्याहृतीः । 'इमां मे अग्र ' इति चरुं सेध्मं जुहुयात् ॥ २ ॥ 'अग्रिहोत्राय स्वाहा - वैश्वदेवयज्ञाय स्वाहा – ब्रह्मयज्ञाय स्वाहा - देवयज्ञाय स्वाहा-पित्याय स्वधा नमस्वाहा-भूतयज्ञाय स्वाहा-मनुष्यपज्ञाय स्वाहा-पञ्चमहायज्ञाय स्वाहा' व्याहृतीः स्विष्टकृत् व्याहृतीः ।। ३ ।। 'अथ गृहदेवताभ्यो यथादिशं बलेिहरणम् ।। ४ ।। अथ होमानन्तरम् । गृहदेताभ्यः गृहरक्षकेभ्य: ब्रह्मादिभ्यः । यथादिशं - तत्तद्देवनादिशि बहिरणम्। यथोक्तम् - अमरर्षिमनुष्याणां बलं यस्मात् प्रवर्धते । तस्माद्वलेिरिति स्यानं सर्वत्रापि समाचरे । दिति । ब्रह्मणे नमः-ब्रह्मपुरुपेभ्यो :- वास्तोष्पतये नम: इति नमः गृहमध्य ।। ५ ।। सर्वत्र प्रागन्तमुत्तरान्तं वा दद्यात्