पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः } इन्द्राय नमः-इन्द्रपुरुषेभ्यो नमः-यमाय नमः-यमपुरुषे भ्यो नमः-वरुणाय नमः -वरुणंपुरुषेभ्यो नमः- सोमाय नमः सोमपुरुपेभ्यो नमः- अग्रये नमः-निर्कतये नमः- वायवे नमः ईशानाय नमः' इति ॥ ६ ॥ इतीति-बलिं दत्वा सर्व दक्षिणे पितृभ्यो ज्ञातिवर्गपत्न्यन्तेभ्यः ॥ ७ ॥ सर्वमित्यादि । प्राचीनावीती दक्षिणे-गृहस्य दक्षिणभागे, पितृभ्यः - पितामहेभ्यः-प्रपितामहेभ्यः -इत्यादि । ज्ञातिवर्गपत्न्यन्तेभ्यः । कृतोपवीती 'यावन्तोऽन्नार्थिनस्तावद्भयो निर्वपामि' इति निरुप्याकाशे वेिश्धेभ्यो देवेभ्यो नमः-दिवाचरेभ्यो नमः-नक्तश्रे भ्यो नमः – भूतेभ्यो नम इति ।। ८ ।। दिवाचरेभ्य इति – ‘दिवाचरेभ्यो भूतेभ्यो नमः' इति दिवा , नक्तञ्चरेभ्यो भूतेभ्यो नम ’ इति रात्रौ ॥ आदिपर्वणि – ‘अशीतिंत्रुटिभिहॉमान् त्रिमुहूर्तान् प्रचक्षते । विाहतान् कामचाराय यक्षगन्धवरक्षसाम् । शेषमन्यन्मनुष्याणां कामचारमिति स्मृतम् । । उच्छीर्षके ‘श्रियै' इति । ९ ।। उच्छीर्षके शिरःप्रदेशे । पादतः 'भद्रकान्यै । इति ॥ १० ॥ प्रतिद्वारं पूर्वान्तमुत्तरान्तं वा भुवंगयोः 'मरुद्धयः' इति ।। ११ प्रतिद्वारं । यत्र यत्र द्वारम् । द्विः । छुरुन्याः पक्षयोः 'अग्रय ? इति ॥ १२ ॥